________________
व्यभिसमयालङ्कारालोकः ।
तु समाधानकरणाद्योगमापत्तव्यम् । लिङ्गस्य लोकाश्रयनपुंसकलिङ्गत्वेनोक्तः । उपायकैौशल्य
त्वाद्योगशब्दो समन्वागतेनेति ।
४६
पूरये बुद्धधर्माणां सत्त्वानां परिपाचने । क्षिप्रप्राप्तौ क्रियासिद्धौ वर्माच्छेदे च कौशलम् ॥ उपायो बोधिसत्त्वानामसमः सर्वभूमिषु । यत्कौशल्यं समाश्रित्य सर्वार्थान् साधयन्ति ते ॥ इति वचनाद्यथोक्तार्थाशुपरिप्रापकः संहतिपरमार्थाश्रितश्चेतविशेष एवोपायकौशलं । तेन समन्वागतेन युक्तेन सर्वबोधिसत्त्वधर्मसमुदागमायेति (p. 6, 21 ) सर्वेषां बोधिसत्त्वानामेव धर्माः श्रावकाद्यसाधारणा मार्गज्ञतालक्षणास्तेषां समुदागमाय प्रतिलाभाय योगः समाधिः करणीयः। क्वचित्तु सर्वबुद्धधर्मसमुदागमायेति पाठः । स चायुक्तः । अनन्तरमेव वक्ष्यति । सर्वे बोधिसत्त्वधर्मा इत्यादि । ननु श्रावकयानेऽपि बोधिसत्त्वधर्मा दानादयो निर्दिष्टा एवेत्याशङ्क्याह । तत्कस्य हेतोरिति । (p. 7, 1) इहैव हौत्याद्युत्तरम् । हिशब्दो यस्मादर्थः । यत्रेति येषु बोधिसत्त्वधर्मेषु । एवं मन्यते । श्रावकादिधर्मास्तत्पिटके विस्तरेणाभिहिता बोधिसत्त्वधर्मास्तु प्रसङ्गात् । इह पुनर्बोधिसत्त्वधर्मा एव विस्तरेण निर्दिष्टाः श्रावकधर्माः प्रसङ्गादिति । अनुत्तरायां सम्यक्सम्बोधाविति । नास्त्युत्तरं प्रधानं यस्याः सेयमनुत्तरा सम्यगविपरीता सर्वाकाराभिसम्बोधिः सम्यक्सम्बोधिर्बुद्धभूमिरिति यावत् । सर्वबुद्धधर्मसमुदागमायेति । सर्वेषां बुद्धधर्माणां सर्वाकारज्ञतालक्षणाना
।
1
7