________________
प्रथमपरिवर्तः ।
ननु च बुड्वाधिष्ठानात् सोपायकैाशलामपि प्रज्ञापारमितां निर्दिशतः कोऽतिशयो यतस्तद्विदुषोऽपि शारिपुत्रस्य सुभूतिं प्रति साधुकारः साधुः स्यात् । न कश्चित्, किन्तु तयोर्विनेयानामनुग्रहाय माहात्म्यद्योतनादनागतविनेयसन्देहापनयनाय । तथागताधिष्ठानादेव वाविवादपूर्वकः साधुकारः इत्यदोषः । माहात्म्यमेवाचित्तताया दर्शयन् कश्चिदनियतगोत्रकोऽपि तौक्ष्णेन्द्रियतया निर्वेधभागीयावस्थायामप्यचिन्त्योपायविशेषादवैवर्तिकत्वे नियत इत्याह । तश्चेत्यादि (p. 6, 10 ) यतस्तेनापि बोधिचित्तेन मन्यते । अतोऽनभिनिवेशाद्याकारात् । चकारादनित्यतादिलक्षणवस्त्वालम्बनात्। उपपरौक्षितव्या निश्चेतव्यः । अष्टम्यां तु भूमै सर्वेषामेव नियतत्वेनावैवर्तिकत्वव्यवस्थानमित्यदोषः । विरहितश्चापरिहानियोगात् प्रज्ञापारमितया निर्वेधभागtयरूपया वेदितव्यः । न केवलम विनिवर्तनौय उपपरीक्षितव्य इति चकारः । एवमालम्बनाकारावभिधाय मृदूष्मणोर्हेतुत्वविशेषार्थमाह । श्रावकभूमावपौत्यादि (p. 6. 12) विशिष्टावस्थाप्राप्तमेव ज्ञानं भूमिस्तत्र शिक्षितकामेन प्रतिपत्तिं कर्तुकामेन इयमेवेति निर्वेधभागीय - प्रदिपादनपरा मुख्यतः । श्रोत्रविज्ञानेन तदाकृष्टेन च मनोविज्ञानेन ग्रन्थार्थयोः परिच्छेदाच्छ्रोतव्या । चिन्तामयेन मनसिकरणादुग्रहौतव्या । भावनामयेन प्रतिपत्त्या सम्पादनावारयितव्या । समादानेन पुस्तकवाचनाद्दाचयितव्या । आगमाधिगमलाभात् पर्यवाप्तव्या । व्याख्यानादिनाऽन्येभ्यः प्रकाशनात्प्रवर्तयितव्या । सर्वच च श्रवणादा सम्यक्प्रयोगपृष्ठचित्तसम्पादनाच्छिक्षितव्यम् । मौलचित्तेन
४८