________________
अभिसमयालधारालोकः ।
अजातस्य स्वभावेन शाश्वतोच्छेदता कुतः। स्वभावे हि विकल्प्यान्ते धर्मभेदविकल्पनाः ॥ पत्रलेखादिविन्यासः केनचिद्योम्नि शक्यते ।
कर्तुं नैव तथाऽजाते धर्मभेदविकल्पनाः ॥ इत्यभिप्रायवानाह नह्येतदित्यनन्तरोक्तमुभयं इदानौं तद्दचनमेव परिहारे योजयन्नाह। स चेदित्यादि, (p. 6, 1) अपि तु शब्दः क्षेपेणैवेत्यर्थः। पर्यनुयोगश्चोद्यं, तमेवाह । यदायुष्मानित्यादिना। एवं मन्यते, यद्यचित्ततायामस्तिता वा नास्तिता वा न विद्यते नोपलभ्यते वा तत्कथं तवैष पर्यनुयोगोऽस्ति “ तच्चित्तं यञ्चित्तमच्चित्तमिति " । तत्रापि ह्यचित्तमिति चित्ताभावमात्रमेवाभिप्रेतमतःसदसद्रपेणास्तित्वसमारोपो नैव घटत इति । चित्तस्य धर्मिणोऽसत्त्वे निर्विषयस्य नो ऽप्रयोगादचित्ततापि नास्तीत्याह । का पुनरेषेत्यादि (p. 6, 6) " नहि संशतिसोपानमन्तरेण तत्त्वप्रासादशिखरारोहणं विपश्चित" इति योगिसंरत्या प्रतिविधातुमाह । अविकारेत्यादि, पारम्पर्येणैवाऽचित्तताऽभ्यस्यमाना बुद्धभूमावविकारपरिनिष्यत्तिं प्रति हेतुत्वादविकारा। अविपर्यासपरिनिष्यत्तिहेतुत्वाच्चाविकल्पा। एवञ्चाधिगमाविरुद्ध मुक्तमित्याह। अथेत्यादि (p. 6, 8) साधु साध्विति सम्भूमादिरभिधानम् । यथा येन प्रकारेण । अपिनामशब्दः पूजावाचकः। यस्य समाधेः प्रभावात्परेषां सन्ताने स्वपरव्यावाधनार्थेन रणयन्तीति रणाः क्लेशा न जायन्ते सोऽरणासमाधिस्तविहारिणां मध्येऽग्रतायां निर्दिष्टः सन्निर्दिशस्याचित्ततामिति विभक्तिविपरिणामेन योज्यम् ।