________________
४६
प्रथमपरिवर्तः।
यथा तयोरभावः । कथञ्च तयोरभावः । यदि तौ तत्त्वतो न स्त इति ज्ञातौ भवतः । तथा चानन्तरं वक्ष्यति स चेदायुष्मञ्च्छारिपुत्र तत्राचित्ततायामित्यादि (p. 6, 1) ननु प्रमाणपपन्नेऽनभिनिवेशद्याकारे कथं प्रेक्षावतो नाभिनिवेश इत्याह । तत्कस्य हेतोरिति (p. 5, 13) तत्कस्माद्धेतोः। अथवा यदेतदभिनिवेशकरणं तत्कस्यार्थस्य हेतोः प्रयोजनादित्यर्थः। उत्तरार्थमाह। तथाहौत्यादि। यस्मादेकानेकस्वभाववैधुर्याञ्चित्तस्य प्रकृतिः स्वभावोऽनुत्पादता प्रभास्वरा विधमितसर्वासत्संकल्यान्धकाराऽतोऽनभिनिवेशाद्याकाराव्यतिरिक्तं चित्तं तत्त्वतोऽचित्तम् । एवं मन्यते चित्तस्य नैःस्वाभाव्यात्तदव्यतिरिक्तोऽनभिनिवेशद्याकारः कथं तत्त्वतोऽभिनिवेशस्थानीय इति। पर्युदासेऽथ प्रसज्ये वाचित्तमिति नत्रः प्रयोगेऽपि सदसन्मात्रमननानुबन्धेन विपर्यासाविनिवृत्तिं पश्यन्नाह । अस्ति तञ्चित्तं यश्चित्तमचित्तमिति। यश्चित्तमनभिनिवेशाद्याकाराव्यतिरिक्तं तच्चित्तं तत्त्वतोऽचित्तमिति यदच्यते, तत्किमचित्तमस्तौति सम्बन्धनीयम् । न्यायेन वस्तुनोऽसत्वान्न पर्युदासे नमः प्रयोगोऽपि तु प्रसज्ये। तत्रापि सदसन्माचप्रनप्तिरपि । नास्तीत्यभिप्रायवान् सुभूतिस्तेनैव परिहारं प्रतिपादयितुकामः प्रतिप्रश्नक्रियया शारिपुचमाह, किं पुनरित्यादिना (p. 5, 16) चित्ताभावमात्रमचित्तं तद्भावो याऽचित्तता। तत्राचित्ततायां किमस्तिता भावो विद्यते वाऽनुपलब्धिलक्षणप्राप्ता। अथोपलभ्यते चोपलब्धिलक्षणप्राप्ता। एवं नास्तिता वेति योज्यं, पूर्वो वाशब्द उत्तरापेक्षया । उत्तरश्च पूर्वापेक्षयेति ज्ञेयम् ।