________________
व्यभिसमयालङ्कारालोकः ।
पारमितोपदेशवचनम् । प्रज्ञापारमितायामिति सामान्यश्रुतावप्यनित्यतादिवस्त्वालम्बनलक्षणायामित्यर्थः । तथाहि प्रदेशेन्तरे " भगवताभिहितं वचं भिक्षवः स्वचान्तरानुसारेण व्याख्यातव्यमिति” । पञ्चविंशतिसाहस्त्रिकायाश्च मृदूष्मा लम्बनमधिकृत्योक्तम्। “हायुष्मञ्छारिपुत्र बोधिसत्त्वो रूपमनित्यमिति रूपं दुःखमिति रूपं श्रन्यमिति रूपमनात्मे”त्यादि । एतावांस्त्वत्र विशेषो यदुत संक्षेप निर्देशः । तत्र पुनः प्रत्येकं सत्यमधिक्कृत्य विस्तर निर्देश इति न सन्देहः कार्यः । चरतेत्यसमाहितेन ज्ञानेन भावयतेति समाहितेन । एतदुक्तमनित्यादिषोडशाकारं दुःखादिचतुः सत्याधारं वस्त्वा - लम्बनमिति । तत्केनाकारेणालम्बनौयमित्याह 1 एवमित्यादि । एवमिति वक्ष्यमाणक्रमेण तेनापीत्यादि न केवलं ज्ञेयस्यात्यन्तपरोक्षत्वादालम्बनं न मन्येत येनाप्याकारेणाभिनिवेशादेर्निषेधात्मकेन बोध्यावाहकज्ञानरूपेणा लम्ब्येत तेनापि न मन्येताभिनिवेशं न कुर्यादित्यर्थः । धर्मता - मुखेनानभिनिवेशाद्याकारेणेति यावत् । इदमुक्तं भवति श्रावको रूपणादिलक्षणं वस्त्वालम्बते । तस्यानित्यतादय आकारा भवन्त्यात्मदर्शनप्रतिपक्षत्वात् । बोधिसत्त्वः पुनरनित्यतादिलक्षणं वस्त्वालम्बते । तस्यानभिनिवेशादय आकारा भवन्ति धर्मदर्शनप्रतिपक्षत्वादिति । ननु यद्यभिनिवेशाभावोऽनभिनिवेश एवं सत्यभावत्वात् प्रतिपक्षा न युज्यते । अथ यन्नाभिनिवेशस्तदा चक्षुरादिष्वपि प्रसङ्ग इति चेत्। उच्यते, यथा विपक्षस्तथाभिनिवेशः । यथा प्रतिपक्षस्तथानभिनिवेशः । कथञ्च विपक्षः । यथाऽसत्यपरिकल्पनासमुत्थितावस्तिनास्तिग्राहौ । कथञ्च प्रतिपक्षः ।
४५