________________
४९
प्रथमपरिवर्तः ।
मेतावतैव सर्वाऽर्थः सम्पन्न इति यथोक्तानुपूर्तीनिर्दिष्टो दशविधोऽववादः । तथाचोक्तम् ।
प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु । असतावपरिश्रान्तौ प्रतिपत्सम्परिग्रहे ॥ २२॥ चक्षुःषु पञ्चसु ज्ञेयः षड्स्वभिज्ञागुणेषु च । दृमार्गे भावनाख्ये चेत्यववादो दशात्मकः ॥२३॥
इति । किन्तु सङ्घरत्ने महिन्द्रियादिबोधिसत्त्वानामयं प्रभेदो ग्राह्यः, वक्ष्यमाणमार्गज्ञतासङ्ग्रहौतषोडशक्षणदर्शनमार्गमाश्रित्य । पञ्चदशसु दर्शनमार्गचित्तक्षणेषु श्रद्धाधर्मानुसारिभेदेन प्रथमफलप्रतिपन्नको दिविधः। ततो यः कामवीतरागः स षोडशे दर्शनमार्गचित्तक्षणे श्रोतापन्नः। ततो भावनामार्गे यावच्चतुर्थक्लेशप्रकारप्रहाणाद्देवमनुष्यकुलकुलत्वेन स एवान्यो द्विविधः। ततः कामावचरपञ्चप्रकारक्लेशप्रहाणेन द्वितौयफलप्रतिपन्नको मुदतीक्ष्णेन्द्रिय एवैकः श्रद्धादृष्टिप्राप्तः। ततः कामावचरषट्प्रकारलेशप्रहाणात्सकदागामौ। ततः स एवैकजन्मावशेषत्वाद्देवेधेकवौचिकोऽपरः। ततः कामावचरसप्ताष्टक्लेशप्रकारप्रहाणात्तृतीयफलप्रतिपन्नकः पूर्ववच्छ्रडादृष्टिप्राप्तः। ततो यः कामावचरनवमक्लेशप्रकारप्रहाणादनागमौत्युच्यते स पञ्चधा वेदितव्यः । तत्रोपपत्तिसंयोजनप्रहाणादभिनिईत्तिसंयोजनाप्रहाणादन्तराभवमभिनिवर्तयन्नवाभिनिवृत्ते चान्तराभवे मार्गसम्मुखौभावेन दुःखान्तप्राप्तावन्तरापरिनिर्वापी। उभयसंयोजनाप्रहाणाद्रूपधातावुपपद्य दुःखान्तप्राप्तावुपपद्य परिनिर्वापौ। तथैवोपपन्नोऽभिसंस्कारेण मार्गसम्मुखौभाव