________________
व्यभिसमयालङ्कारालोकः ।
४३
ततः
लाभाद्दुःखान्तप्राप्तावभिसंस्कारपरिनिर्वापौ । तद्विपर्ययादनभिसंस्कारपरिनिर्वाणौ । ऊर्ध्वश्रोताश्च पञ्चमः स पुनरकनिष्ठपरमो भवाग्रपरमश्च । तचाकनिष्ठपरमः लुतार्धभुतसर्वस्थानच्युतत्वेनाकनिष्ठप्रवेशस्त्रिविधः । भावाग्रपरमस्तु रूपवीतरागो दृष्टधर्मे शमः कायसाक्षीति द्विविधः । ततो भावाग्रिकाष्टमक्लेशप्रकाराणां प्रहाणादर्हत्वफलप्रतिपन्नकः । श्रावकपिटकमेवावलम्ब्य स्वमार्ग संमुखीकरणादबुडोत्पादे प्रत्येकबुद्ध इति विंशतिः । तथाच पचविंशतिसाहस्रिकायामयमर्थो विस्तरेणोक्तः । श्रवैवर्तिकचक्रचे तु बोधिसत्त्वश्रद्धानुसारिणमारभ्य यावद्दोधिसत्त्वप्रत्येकबुद्ध इति पुद्गलव्यवस्थानं स्पष्टतरार्थं भगवतोक्तमिति तचैवावलोकनौयमचास्माभिर्विस्तरेण नोपन्यस्तं किं पिष्टं पिष्येति । तथाच प्रथमद्दितौयफलस्थं चतुर्थफलप्रतिपन्नकश्च पुलं सुगमत्वेनासङ्गृह्योक्तम् ।
मृदुतीक्ष्णेन्द्रियौ श्रद्धादृष्टिप्राप्तौ कुलकुली । raaौच्यन्तरोत्पद्य काराकाराकनिष्ठगाः ॥ २४ ॥ लुतास्त्रयो भवस्याग्रपरमो रूपरागहा । दृष्टधर्मशमः कायसाक्षी खड्गश्च विंशतिः ॥ २५ ॥ इति, लब्धाववादस्यैवमादिकर्मिकस्य ।
सम्पूर्णपुण्यसम्भारस्ततो धौमान्दृढाशयः । श्राद्यैः कुशलैर्धर्मैः परिभावितसन्ततिः ॥ ज्ञानसम्भारसिद्ध्यर्थं कल्यासङ्ख्येयनिर्गमात् । स्थिराभिज्ञो ऽववादेन चर्याभूमौ प्रवर्तते ॥ इति कृत्वाऽधिमुक्तिचर्याभूमिपरिशोधनार्थं श्रुतादिप्रकर्षप्राप्तमोक्षभागौयश्रवादिलक्षणकुशलमूलादूर्ध्वश्चतुः