________________
व्यभिसमयालङ्कारालोकः ।
४१
भग्नं भवति अतएव श्रडाप्रज्ञाभ्यां योगात्पर्यवसाने न संत्रासमापद्यते। सर्वथाऽनिश्चयचासेन । अथवा भाषणादिकाले यथाक्रमं ग्रन्थार्थोभयावधारणान्नावलीयते न संलौयते न विषौदति । कुतो यस्मात्प्रत्यक्षानुमानागमप्रमाणैरविरुद्धस्वविषयार्थपरिच्छेदान्न विषादमापद्यते, नास्य विपृष्ठौभवति मानसं न भग्नपृष्ठौभवति । अत स्वादिमध्यपर्यवसाने नोचस्यति न सन्त्रस्यति न सन्त्रासमापद्यत इति योज्यम् । एष एवेति । यो बोधिसत्त्वः संवृतिपरमार्थविभागकौशल्याद्यथोक्ताववादे चित्तावलौनत्वादिरहितः स एष एवेत्यर्थः । एष एवेति लक्षणमनुक्का कथं प्रज्ञापारमिता प्रत्यवमृष्यत इति चेदुच्यते, यस्यार्थस्य भाषणादौ चित्तावलौनत्वादि न करोति सोऽर्थः । प्रज्ञापारमिता प्रतिपत्त्यादिदशप्रकारा कथितैवेत्यर्थाक्षिप्तपरामर्षणाददोष इति, उपसंहरन्नाह । स चेदित्यादि, (p. 5, 10) स बोधिसत्त्वो यद्यनन्तरोक्ताववादेन यथोक्तविषये स्थितिमान् भवति तदास्य बोधिसत्त्वस्यैषैव प्रार्थितार्थप्राप्तिकर्तव्यतोपदेशोऽववादानुशासनौ वेदितव्या । तदेवङ्कत्वा बोधिचित्ततदाक्षिप्तधर्मस्वभावप्रज्ञापारमितायां या प्रतिपत्तिरनुपलम्भाकारा, तस्या यदालम्बनं चत्वार्यार्यसत्यानि । य श्रश्रयस्त्रौणि शरणानि । यो विशेषगमनहेतुरसक्तिः योऽव्यावृत्तिगमनहेतुरपरिश्रान्तिः । योऽनन्ययानगमनहेतुः प्रतिपत्सम्परिग्रहः । योऽपरप्रत्ययगामित्व हेतुः पश्च चक्षूंषि । यः सर्वाकारज्ञतापरिपूरिहेतुः षडभिज्ञाः । यो निष्ठाहेतुर्दर्शनभावनामार्गौ तत्सर्वमववादप्रकरणे निर्दिष्ट
6