________________
४०
प्रथमपरिवर्तः।
सर्वरूपदर्शनलेशज्ञेयावरणप्रहाणकारित्राणमादिशान्तत्वेनावबोध इति देशनाऽभिज्ञाववादः। चतुःसत्यसङ्ग होतषोडशक्षणस्वभावं दर्शनमार्ग धर्मान्वयज्ञानक्षान्तिज्ञानात्मकं सर्वधर्मनिःस्वभावबोधेन मायाकार इव सर्वचानभिनिविष्टमूर्तिस्तत्यहातव्यवस्तुप्रतिपक्षत्वेन योगी विभावतौति देशना दर्शनमार्गाववादः। संस्कृतासंस्कृतयोरेकरूपत्वेन परस्परमशक्यव्यतिरेकप्रज्ञप्तिवद्यथोक्तदर्शनमार्गसम्मुखौकृतवस्त्वव्यतिरेकालम्बनादर्शनभावनयोरपृथग्भाव इति न लाक्षणिकं भावनामार्गव्यवस्थानमथ च स तत्पहातव्यवस्तुप्रतिपक्षत्वेन विभाव्यते प्रतीत्यसमुत्पादधर्मतयेति देशनाभावनामार्गाववाद इत्येवन्दशविधोऽववादो ग्रन्थसंक्षेपस्याचेष्टत्वात्प्रज्ञापारमिताशब्देनोक्तः । तथाहि पञ्चविंशतिसाहसिकायां प्रत्यववादं स्पष्ट एव ग्रन्यो निर्दिष्टो ज्ञापकत्वेन च विस्तरभयान्न लिख्यते। तदेवमववादेन किम्भूतो बोधिसत्त्वोऽववादनीय इत्याह। अपितु खलु पुनरित्यादि (p. 5. 4) स चेदिति निपातो यद्यर्थे । एवमिति बोधिसत्त्वप्रज्ञापारमितानुपलम्भेन। अववादविषये दशप्रकारे भाष्यमाणे चित्तन्नावलौयते न सङ्कोचायते यतो न विषौदति न मुह्यति, अतएव श्राद्धत्वेन धर्मभजनादादौ नोत्तस्यत्यस्थानचासेन देश्यमाने न संलौयते नालस्यायते। यतो न विषादमापद्यते न कातरभावं याति। अतएव प्राज्ञत्वेन तत्ववेदिनां मध्ये न संत्रस्यति सन्ततित्रासेन । उपदिश्यमाने नास्य विपृष्ठीभवति न विप्रतिसारोभवति, मन एव मानसम् । यतो न भमपृष्ठीभवति न पृष्ठं चित्तं