________________
अभिसमयालशारालोकः ।
बहिर्दाशून्यतादिभिः पूर्वान्तापरान्तयोश्च परस्परं न युक्तायुक्तत्वेन प्रतिपत्तिरित्युपदेशः सत्याववादः। बुद्धे बुद्धबोध्योरेकलक्षणत्वेन बुद्धकरकधर्मलक्षणसर्वाकारज्ञतायामनुपलम्भरूपाद्ययोजनेनालख्यालम्बकसमताज्ञानमिति। धर्मे विसर्वज्ञतासङ्ग्रहौतसमस्तवस्तुप्रतिपक्षाकारसङ्घहैः सर्वधर्माणां सङ्गहीतानां निःस्वभावतेति । सङ्घ बुद्धरत्नान्तर्गतत्वेनार्हद्दज्र्येषु फलस्थप्रतिपन्नकभेदेन सप्तसु महापुरुषेषु प्रत्येकबुद्धेन सहाष्टसु मृद्विन्द्रियादिभेदेन विंशतिसंख्यावच्छिन्नेष्वार्यावैवर्तिकबोधिसत्त्वशैक्षेष्ठनुत्पादतया प्रवृत्तिरित्युपदेशो रत्नत्रयाववादः। प्रारब्धवौर्यतया यथोक्तार्थानुष्ठानं प्रति कायादिसुखल्लिकत्वेन कस्यचिदभिनिवेशः स्यादित्यसतौ कायादौनामस्वभावतया देशनाववादः। चिरतरकालाभ्यासेनापि समौहितार्थानिष्यत्तावुत्त्रसनजातीयस्य परिखेदः स्यादित्यपरिश्रान्तौ रूपादेर्यावत्सम्यक्सम्बोधेरमननतया देशनाववादः । दशदिगवस्थितबुद्धादिभ्यः प्रत्यर्थं मार्गोपदेशे गृह्यमाणे चित्तावलौनता स्यादिति प्रतिपत्सम्परिग्रहे धर्माणां प्रकृत्यजातत्वेन शिक्षणमववादः। मांसवैपाकिकदिव्यप्रज्ञाधर्मबुद्धचक्षुषां यथासंख्यं प्रतिनियतवस्तुसर्वसत्त्वच्यत्यपपत्तिसर्वधर्माविकल्पानां सर्वार्यपुगलाधिगमसर्वाकारसर्वधर्माभिसम्बोधविषयाणां तथतयैकत्वेन प्रतिपत्तिरिति शिक्षणं पञ्चचक्षुरववादः। ऋद्धिदिव्यश्रोचपरचित्तज्ञानपूर्वनिवासानुस्मृत्याभिसंस्कारिकदिव्यचक्षुराश्रवक्षयज्ञानाभिज्ञानां पृथिवीकम्पनादिसर्वलोकधातुस्थसूक्ष्मेतरशब्दश्रवणसरागादिपरचित्तज्ञानस्वपरपूर्वानेकजात्यनुस्मरण