________________
प्रथमपरिवर्तः।
ववादविषयमधिकृत्य पञ्चविंशतिसाहसिकायामुक्तम् । "कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ्चरितव्यम्। भगवानाह। इह शरिपुत्र बोधिसत्त्वो बोधिसत्त्वं तन्नाम च न समनुपश्यतीत्यादि"। बोधिसत्वधर्म वेति यस्य धर्मस्य बोधिसत्त्व इत्यधिवचनम्। तं धर्मम् । अविन्दन् श्रुत्या। अनुपलभमानश्चिन्तया। असमनुपश्यन् भावनया। अथवा प्रतिनियतार्थेन सह प्रत्यासत्तिनिबन्धनाभावानिराकारेण ज्ञानेनाविन्दन्। वस्तुभावमन्तरेणापि स्वप्नादौ भावात्साकारेणानुपलभमानः। अतएवोभाभ्यामसमनुपश्यन् कतमस्यां प्रज्ञापारमितायां प्रतिपत्त्यादि (p. 5, 3) दशप्रकारायां प्रथमं सम्प्राप्तगुणपरिपालनार्थेनापरिहाणिमुपादाय शिक्षणेनाववदिष्यामि । ततः पश्चादप्राप्तगुणप्राप्तिमुपादायानुशासिष्यामि । सर्वथा तत्त्वतो नैव किं वूद्भावनासंवृत्त्याऽववाद इत्यर्थादाक्षिप्त भवति । तथा चात्रैवानन्तरं वक्ष्यति एषोऽववाद इत्यादि। स पुनर्विषयभेदाद्दशधा ज्ञेयः। तत्र यथोक्तप्रभेदबोधिचित्तप्रतिपत्तौ संरतिपरमार्थसत्यानतिक्रमण श्रावकाद्यसाधारणतयाऽनुपलम्भयोगेन वर्तनमिति शिक्षणं प्रतिपत्त्यववादः। दुःखे फलभूतरूपादिशून्यताप्रज्ञापारमितयोस्तु तथा रूपत्वादैकाम्यमिति। समुदये शून्यताहेतुभूतरूपाद्योरव्यतिरिक्तत्वेन रूपादिः समुदयनिरोधसंक्लेशव्यवदानधर्मा इति । निरोधे शून्यतायामुत्पादनिरोधसंक्तशव्यवदानहानिड्यादिरहितायान्न रूपं यावन्न विद्योत्पादो नाविद्यानिरोधो न बुद्धो न बोधिरिति । मार्गे दानादिपारमिताभिरात्मनोऽध्यात्मशून्यतादीनां