________________
व्यभिसमयालङ्कारालोकः ।
इति न्यायान्नाप्यभ्यूह्यो देशयितुं शक्यत इति प्रसङ्गागतं निर्वर्त्येदानीमुत्पादितप्रथमादिबोधिचित्तो यथाकालं बोधिसत्त्वोऽपि दानादिकुशलधर्माभ्यासेन पुण्यसम्भारमुपार्जयन् ।
३७
ध्यानेऽभिज्ञाभिनिर्हाराल्लोकधातून् स गच्छति । पूजार्थमप्रमेयानां बुड्डानां श्रवणाय च ॥ अप्रमेयानुपास्यासौ बुड्डान् कल्पैरप्रमेयैः । कर्मण्यतां परामेति चेतसस्तदुपासनात् ॥ इति चित्तकर्मण्यताबलेन स्थितः समाधौ । धर्मश्रोतसि बुद्धेभ्योऽववादं लभते तदा । विपुलं शमथज्ञानवैपुल्यगमनाय सः ॥ इति न्यायादेवंप्रवृत्तबोधिसत्त्वस्य सम्बन्धनार्थं भगवदुक्तवचनपूर्वकमववादमार्य सुभूतिर्बोधिसत्त्व इत्यादिनाह, बोधिसत्त्वो बोधिसत्त्व (p. 4, 19) इत्यस्मिन्नर्थे प्रज्ञाबलेन बोध्यालम्बनाहोधिश्चासौ महालपाशयेन सत्त्वालम्बनात् सत्त्वश्चेति बोधिसत्त्व इत्युक्तः । यथाऽशुभालम्बनसमाधिरशुभेति । प्रदेशान्तराभिहितस्यापि बोधिसत्त्वस्य ग्रहणार्थं वीप्सयाभिधानम् । कतमस्य कल्पितादिरूपस्याधिवचनमाभिमुख्येन व्यपदेशः परमार्थतोऽपि तु न कस्यचिदित्यर्थः । तदेवाह ॥
नाहं भगवंस्तन्धर्ममिति (p. 4, 21 ) कल्पितादिरूपम् । तत्त्वतोऽववदनौयस्यानुपलम्भात् ॥
अववादविषयस्तर्ह्यस्तीत्याह । तमपौत्यादि (p. 5, 1 ) । प्रज्ञापारमिता प्रतिपत्त्यादिदशप्रकारधर्मस्वभावा । तथा