________________
प्रथमपरिवर्तः।
भाषन्त इत्यादेर्यथाक्रमं व्याख्यानम् । पुरुषकारोऽधिष्ठानं त तुकत्वात्स सर्वो भाषणादिरूपचारात्पुरुषकारशब्दनोक्तः। ननु श्रावकैरपि स्वाधिगमधर्मता साक्षात्कृता । तत्कस्मान्न स्वशक्त्यैव सर्व भाषणादि क्रियत इत्याशय तत्कम्मा तोरिति स्वयमेव प्रश्नः कृतः। परैः क्रियमाणे नौरसिकत्वादिदोषोदयादित्येके। तदनन्तरं कथाविच्छेददोषपरिहारार्थ शारद्येन प्रष्टमशकवतामनुग्रहार्थमेकाग्रीकृतचेतसां वचनेनेर्यापथभेदादिक्षेपदोषपरिहारार्थं चेत्यपरे। यो होत्याद्युत्तरम् (p. 4, 9)। तत्र धर्मेऽभिधेये निर्वेधभागौयाधिगमदारेण धर्मदेशनायां सत्यां शिक्षमाणा दर्शनमार्गाधिगमेन तामधिगमधर्मतां साक्षात्कुर्वन्ति । भावनामार्गाधिगमेन धारयन्ति। सर्वं तदधिगतार्थविषयं देशनाधर्मसूत्रादिधर्मतयाधिगमेनाविरुद्धम्। तदविरुवप्रकाशनात्। तस्मात्तथागतधर्मदेशनाया एवोपचारनिर्दिष्टपुरुषकारस्वभावाया एष सदृशः स्यन्दो निष्यन्दस्तदनुरूपं फलं यत्सूचादि ते श्रावका उपदिशन्तस्तामागमधर्मतामधिगमधर्मतया न विरोधयन्ति (p. 4, 14) । उपदिशन्त इति चोपलक्षणाद्भाषमाणा देशयन्त इत्यपि ग्राह्यं तथाप्रकृतत्वात् । अनेनैतदाह नित्यसमाधानोपायकौशलवैकल्यादधिगतार्थविषयमपि धर्म स्वाधिगमाविरुद्धं भाषितुमसमर्थाः प्रागेवानधिगतार्थविषयमतो बुद्धानुभाव एव द्रष्टव्यः । तथा
कियद्दा शक्यमुन्नेतुं स्वतर्कमनुधावता। परोक्षोपयतचेतोस्तदाख्यानं हि दुष्करम् ॥