________________
व्यभिसमयालङ्कारालोकः ।
३५
विशेषकरणेनोपदेश्यति । उताहो शब्दः पक्षान्तरद्योत - कोऽथ बुद्धानुभावेनेति । एवं मन्यतेऽचिन्त्यत्वादुपायविशेषस्य कदाचिदनेनापूर्वज्ञानमधिगतं व्यवस्थितस्योत्कर्षो वा कृतस्तथागताधिष्ठानं वा प्राप्तमन्यथाहमिवार्य सुभूतिरशक्तः न चारणाविहारिणामग्रत्वेन विशेषसद्भावाद्भाषत इत्यपि शक्यते वक्तम् । ममापि प्रज्ञावतामग्रत्वविशेषसद्भावाद्भाषणप्राप्तेः । न चारणासमाधेर्देशनायां व्यापार इत्यार्यशारिपुत्रस्य भावः । मृद्दिन्द्रियतया न सहसाऽपूर्वज्ञानादिकं कर्तुं शक्यते ऽचिन्त्योपायसद्भावेऽपौति पाश्चात्यमेव विकल्पं दर्शयन्नाह । अथेत्यादि (p. 4, 4) श्रावकाणां समन्वाहृत्य परचित्तज्ञानं नान्यथेति बुड्डानुभाववचनेनासमन्वाहारज्ञानमुक्तम् । इदमनन्तरोक्तमेवंरूपं यथोक्तविकल्पचयस्वभावम् । चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पः सा च चित्तस्योदारिकतेति वितर्कम् । चेतसा संहत्या तद्रूपानुकारिणा ज्ञात्वा वक्ष्यमाणमेतदुक्तवान् । तदेवाह यत्किञ्चिदिति । (p. 4, 2)
स्वचं गेयं व्याकरणं गाथोदानावदानकम् । इतिवृत्तकं निदानं वैपुल्यश्च सजातकम् ॥ उपदेशाद्भुता धर्मी दादशाङ्गमिदं वचः ।
तच भाषन्ते श्रुतमयज्ञानोत्पादादोधिबौजावरोपणार्थं यतो ग्रन्थमुदौरयन्ति । देशयन्ति चिन्तामयज्ञानोत्पादापरिपाचनार्थं यतोऽर्थं प्रकाशयन्ति । उपदिशन्ति भावनामयज्ञानोत्पादात्परिमोचनार्थं यतो ग्रन्थार्थनिश्चयोत्पादनतः संप्रकाशयन्ति । तदेवमुदीरयन्तौत्यादिपदचयं