________________
प्रथमपरिवर्तः ।
उत्पाद्यः कथितः । तस्य प्रभेदोऽपि क्रियमाणस्तथाकर्तव्यो ऽन्यथा हेतुमाचप्रभेदान्न तस्य सर्वथा प्रभेद इत्यपरिपूर्ण एव प्रभेदः स्यादित्येके । श्रन्ये तु महाराजोपमादय एवाष्टौ चित्तोत्पादा बोधिसत्त्वभूमिषु विशेषमार्गसङ्ग्रहौता इति वर्णयन्ति । सर्वप्रकारबोधिचित्तोत्पादप्रभेदप्रतिपादको ग्रन्थः पञ्चविंशतिसाहस्त्रिकातो ज्ञापकत्वेनेह प्राचुर्यभयान्न लिख्यते । अच तूइटितज्ञसंक्षिप्तरुचि सत्त्वानुग्रहेण प्रवृत्त - त्वाद्देशनाया इति कृत्वा नोक्तः । यथोक्तसत्त्वार्थप्रभेदोऽवश्यमेव प्रतिपत्तव्या यतः पञ्चविंशतिसाह स्विकार्थोपसंहारेण प्रवृत्तमिदं स्वचरत्नमिति प्रागेव प्रतिपादितम् ।
तथाचाहाचार्यदिङ्गागः ।
३४
इत्यमष्टसहस्रौयमन्यूनार्थैर्यथोदितैः ।
ग्रन्थसंक्षेप इष्टोऽच त स्वार्था यथोदिताः ॥
इति
गंभीरायां
सर्वाकारतथागतज्ञानगम्यत्वेन प्रज्ञापारमितायामात्मनोऽशक्तिवदप्रहौणज्ञेयावरणत्वेनार्य
सुभूतेरप्यशक्तिं सम्भावयन्नार्यशारिपुत्रोऽध्येषणामात्राव
गमादविदिततत्सामर्थ्याधिष्ठानोऽथेत्यादिना
(p. 3, 21)
वितर्कयति । एतदिति वक्ष्यमाणं वितर्कजातं तदेव - मित्यादिनाह । किंशब्दो वितर्के। आत्मीयेन (p. 4, 1 ) स्वप्रतिबद्धटत्तिना । तद्दिषये तु न परकृतेन तस्यात्मीयेनापि तु स्वकेन स्वकृतेन । प्रज्ञा धर्मप्रविचयः । प्रतिभानं युक्तयुक्ताभिधानम् । तयोर्बलस्याव्याहतसामर्थ्यस्याधानेनापूर्वकरणेन। प्रकारान्तरेणाप्याह स्वकेनेत्यचाप्यात्मौयेनेति द्रष्टव्यम् । प्रज्ञाप्रतिभानबलस्य व्यवस्थितस्याधिष्ठानेन