________________
अभिसमयालङ्कारालोकः ।
संभिन्नपरकार्यक्रियत्वात्। अयञ्च बुद्धभूमिसङ्ग होतो मौलावस्थाप्राप्तः। द्वाविंशतितमो धर्मकायसहगतो महामेघोपमस्तुषितभुवनवासादिसन्दर्शनेन निर्माणकायतया सर्वसत्त्वार्थक्रियाणां तदधौनत्वात्। अयमपि निर्विकल्पकतथागताधिपत्यप्रत्तनिर्माणाधुपलब्धेविनेयपरिकल्पितशुद्धलौकिकज्ञानपृष्ठावस्थाप्राप्तो बुद्धभूमिसङ्ग्रहीत इत्यादिकर्मिकभूमिमारभ्य यावद्दुद्धभूमिसङ्गहौत इत्यतोऽर्थाधिगमानुक्रमेण यथोक्तानुपूर्व्या, इयानेव प्रभेदो न न्यूनो नाधिको नाप्यन्यथानुपूर्त्या प्रतिपादनौय इति प्रतिपादितं भवति। एवंक्रमेण हाविंशतिभेदभिन्नबोधिचित्ताधिगमदारेण यथा बोधिसत्त्वा महासत्त्वास्त्रिविधामपौत्यादिना पूर्ववत्सम्बन्ध इति । तथाचोक्तम् । भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः । वजाचलौषधौमिचैश्चिन्तामण्यर्कगीतिभिः ॥ २० ॥ पगञ्जमहामार्गयानप्रस्रवणोदकैः । आनन्दोक्तिनदीमेघेर्दाविंशतिविधः स च ॥२१॥ इति। अयमवश्यं पृथग्जनबोधिसत्त्वतथागतभूमिभेदेन हेतुफलात्मकः प्रभेदो ज्ञेयः। तथाहि । सूचालंकारे चित्तोत्पादोऽधिमोक्षोऽसौ शुद्धाध्याशयिकोऽपरः। वैपाक्यो भूमिषु मतस्तथावरणवर्जितः ॥
करुणामूल इष्टोऽसौ सदा सत्वहिताशयः । इति वचनाचेतुफलालम्बनात्मक एव चित्तोत्पाद