________________
प्रथमपरिवर्तः।
भेद्यत्वात्। नवमो ध्यानपारमितासहगतः पर्वतोपमः सर्वथालम्बनविक्षेपेणानिष्कम्प्यत्वात् । दशमः प्रज्ञापारमितासहगतो महाभैषज्योपमः सर्वक्लेशन्नेयावरणव्याधिप्रशमनात्। एकादश उपायकौशलपारमितासहगतः कल्याणमित्रोपमः सर्वावस्थासु सत्त्वार्थापरित्यागात् । हादशः प्रणिधानपारमितासहगतश्चिन्तामणिसदृशो यथा प्रणिधानं फलसमृद्धेः । त्रयोदशो बलपारमितासहगत आदित्योपमो विनेयजनस्य परिपाचनात्। चतुर्दशो ज्ञानपारमितासहगतो मधुरसङ्गौतिघोषोपमो विनेयावर्जनकरधर्मदेशकत्वात्। एते च दश यथाक्रमं प्रमुदितादिदशभूमिसङ्गहौता दर्शनभावनामार्गगोचराः। पञ्चदशोऽभिज्ञासहगतो महाराजोपमोऽव्याहतप्रभावत्वेन परार्थानुठानात्। षोडशः पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्य ज्ञानमंभारकोशस्थानत्वात् । सप्तदशो बोधिपक्षधमसहगतो महामार्गोपमः सर्वार्यपुङलयातानुयातत्वात्। अष्टादशः शमथविपश्यनासहगती यानोपमो युगनड्डवाहित्वात्संसारनिर्वाणान्यतरापातेन सुखसंवाहनात्। एकोनविंशतितमो धारणीप्रतिभानसहगतः प्रस्रवणोपमः सर्वथोदकधारणाक्षयोऽदसाधर्म्यण श्रुताश्रुतधर्मधारणादपर्यान्तदेशनोद्भेदत्वात् । एते च पञ्चबोधिसत्त्वभूमिषु विशेषमार्गसङ्गहीताः। विंशतितमो धर्मो दानसहगत आनन्दशब्दोपमो मोक्षकामानां विनेयानां प्रियश्रावणात्। अयञ्च बुद्धभूमिप्रवेशप्रयोगमार्गसङ्ग्रहीतो बोधिसत्त्वभूमिप्रतिबद्धः। एकविंशतितम एकायनमार्गसहगतो नदौस्रोतःसदृशो ज्ञानज्ञेययोः समताधिगमेनोरुकरुणाप्रज्ञोपायतयाऽ