________________
अभिसमयालङ्कारालोकः ।
प्रतिष्ठापयितुकामेन बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यमि" त्यादि। तथाचोक्तम् । चित्तोत्पादः परार्थाय सम्यक्संबोधिकामता। समासव्यासतः मा च यथासूत्रं स चोच्यते ॥ १६ ॥
इति । तवायं तस्य प्रभेदः । तत्र प्रथमश्चित्तोत्पादश्छन्दसहगतो बोधिसत्त्वानां पृथिवीसमः सर्वाकारसर्वधर्माभिसंबोधस्य मंभारप्रसवप्रतिष्ठाभूतत्वात् । द्वितीय आशयसहगतः कल्याणसुवर्णोपमः षट्पारमितामहौतस्य हितसुखाशयस्यायतितदात्ययोर्विकारभजनादासम्यक्संबोधिशय आशय इति कृत्वा । तृतीयोऽध्याशयसहगतः शुक्लपक्षनवचन्द्रोपमः। सर्वशुक्लपक्षधर्मोत्तरोत्तरविधिगमनेनाधिक आश्रयोऽध्याशय इति कृत्वा । एते च त्रयो मृदमध्याधिमावतयाऽऽदिकर्मिकमंभारभूमिसङ्गहौताः। चतुर्थः प्रयोगसहगतो ज्वलनोपमस्त्रिसर्वज्ञताप्रयोगस्येन्धनान्तरविशेषेणेवाग्रुत्तरोत्तरविशेषगमनात्प्रकृष्टो योगः प्रयोग इति कृत्वा। अयञ्च प्रथमभूमिप्रवेशप्रयोगमार्गसङ्ग्रहीतोऽधिमुक्तिचर्याभूमिप्रतिबद्धः । पञ्चमो दानपारमितासहगतो महानिधानोपमः। सर्वथाऽमिषसम्भोगेनाप्रमेयसत्त्वमंतर्पणेऽप्यपर्यादानात् । षष्ठः शौलपारमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानामाश्रयभावेन ततः प्रसवनात्। मप्तमः क्षान्तिपारमितासहगतो महार्णवोपमः सर्वानिष्टोपनिपातैरशोभ्यत्वात् । अष्टमो वौर्यपारमितासहगतो वजोपमः मंप्रत्ययदाना