________________
लेखाङ्कः-४१-४।
५९ जयमहातीर्थाव(*)तारश्रीमदादितीर्थंकरश्रीऋपभदेव स्थ(स्त)म्भन. कपुरावतारश्रीपार्श्वनाथदेव सत्यपुरावतारश्रीमहावीरदेव प्रशस्ति
सहितकश्मीरावतारश्रीसरस्वती देवकुलिकाचतुष्टय युगलाम्बावलोकनशाम्बप्रद्युम्नशिखरेषु श्रीनेमिनाथकुलालंकृतदेवकुलिकाचतुटयतुरगाधिरूढनि(*)जपितामह ट श्रीसोम पितृ ठ० श्रीआशाराजमूतिद्वितयतोरणत्रयश्रीनेमिनाथदेवआत्मीयपूर्वजाग्रजानुजपुत्रादिमूर्तिसमन्वितसुखोद्घाटनकस्तम्भश्रीसंमेतावतारमहातीर्थप्रभृतिअनेककीर्तनपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषितश्रीमदुज्जयन्तमहातीर्थे आ(*)त्मनस्तथा स्वभार्यायाः प्राग्वाटजातीय ठ० कान्हडपुत्र्याःट० राणुकुक्षिसंभूताया महं श्रीसोखुकायाः पुण्याभिवृद्धये श्रीनागेन्द्रगच्छे भट्टारकश्रीमहेन्द्रमूरिसंताने शिष्यश्रीशान्तिसूरिशिष्यआणन्दसूरिश्रीअमरमुरिपदे भट्टारकश्रीहरिभद्रसूरिपट्टालंकरणश्रीविजयसेनमूरिप्रतिष्ठि(*)तश्रीमदादिजिनराजश्रीऋपभदेवप्रमुखचतुर्विंशतितीर्थकरालंकृतोऽयमभिनवः समण्डपः श्रीअष्टापदमहातीर्थावतारप्रधानप्रासादः कारितः । स्वस्ति श्रीवलये नमोऽस्तु नितरां कर्णाय दाने ययो
रस्पष्टेऽपि दृशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः । दृष्टे संप्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः
कीर्ति कांचन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति ॥१॥ · कोटीरैः कटकाङ्गुलीयतिलकैः केयूरहारादिभिः
कौशेयैश्च विभूष्यमाणवपुपो यत्पाणिविश्राणितैः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृत
स्तैस्तैः स्वांशपथैः कथं कथमिव प्रत्याययांचक्रिरे ।।२।। न्यासं व्यातनुतां विरोचनसुत(*)स्त्यांग कवित्वश्रियं