________________
लेखाकः-३८-१। पीयूपपूरस्य च वस्तुपाल
मंत्रीशितुश्चायमियान् विभेदः। एकः पुनर्जीवयति प्रमीतं
प्रमीयमाणं तु भुवि द्वितीयः॥ १ ॥ श्रीदश्रीदयितेश्वरप्रभृतयः संतु क्वचित् तेऽपि ये
प्रीणति प्रभविष्णवोऽपि विभवै किंचनं कंचन । सोऽयं सिंचति कांचनैः प्रतिदिनं दारिद्रयदावानल
प्रम्लानां पृथिवीं नवीनजलदः श्रीवस्तुपालः (*)पुनः॥२॥ भ्रातः पातकिनां किमत्र कथया दुर्मत्रिणामेतया
येपां चेतसि नास्ति किंचिदपरं लोकोपकारं विना । नन्वस्यैव गुणान्गृणीहि गणशः श्रीवस्तुपालस्य यस्तविश्वापकृतिकृत चरति यत्कर्णन चाणं पुरा ॥३॥
भित्त्वा भानुं भोजराजे प्रयाते ... श्रीमुंजेऽपि स्वर्गसाम्राज्यभाजि ।
एकः संप्रत्यार्थिनां वस्तुपाल
स्तिष्ठत्यश्रु(*)स्यंदनिष्कंदनाय ॥ ४ ॥ चौलुक्यक्षितिपालमौलिसचिव ! त्वत्कीर्तिकोलाहल
स्त्रैलोक्येऽपि विलोक्यमानपुलकानंदाश्रुभिः श्रूयते । किं चैपा कलिदूपितापि भवता प्रासादवापीप्रपा___ कूपारामसरोवरप्रभृतिभिर्धात्री पवित्रीकृता ॥५॥ स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेजस्वी। येन वयं निश्चिताश्चिंतामणिने(*)व नंदामः ॥ ६॥ लवणप्रसादपुत्र श्रीकरणे लवणसिंहजनकोऽसौ । मंत्रित्वमत्र कुरुतां कल्पशतं कल्पतरुकल्पः ॥ ७ ॥