________________
प्राचीन जैनलेखसंग्रहे
प्रकाशनैकमार्तंड महाराजाधिराजश्री लवणप्रसाददेवसु (*) तमद्दाराज श्रीवीरधवलदेवप्रीतिप्रतिपन्नराज्यसंवैश्वय्र्येण श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन तथा अनुजेन सं. ७६ वर्षपूर्व गूर्जरमंडले धवलककप्रमुखनगरेषु मुद्राव्यापारान् व्यापृण्वता महं० श्रीतेजःपालेन च श्रीशत्रुंजयार्बुदाचलप्रभृतिमहातीर्थेषु श्रीमदपहिलपुरभृगुपुर(*)स्तंभनकपुर स्तंभतीर्थदर्भवतीधवलक्ककप्रमुखनगरेपु तथा अन्यसमस्त स्थानेष्वपि कोटिशोऽभिनवधर्मस्थानानि प्रभूतजीर्णोद्धारा कारिताः । तथा सचिवेश्वरश्रीवस्तुपालेन इह स्वयं निर्मापितश्रीशत्रुंजयमहातीर्थावतार श्रीमदादितीर्थंकर श्रीऋषभदेव स्तंभनकपुरावतार श्री पार्श्वनाथदेव सत्यपु (*)रावतार श्रीमहावीरदेव प्रशस्तिसहितकश्मीरावतार श्रीसरस्वतीमूर्ति देवकुलिका चतुष्टयजिनयुगल अम्बावलोकनाशास्त्रप्रद्युम्न शिखरेषु श्रीनेमि - नाथदेवालंकृतदेवकुलिकाचतुष्टय तुरगाधिरूढस्वपितामह महं० ८० श्रीसोम निजपितृट श्रीआशराजमूर्तिद्वितय चारुतोरणत्रय श्रीनेमिनाथ (# ) देव आत्मीयपूर्वजाग्रजानुजपुत्रादिमृत्तिसमन्वितसुखोद्घाटनकस्तंभश्रीअष्टापद्महातीर्थप्रभृति अनेककीर्तनपरंपराविराजिते श्रीनेमिनाथदेवाधिदेव विभूषित श्रीमदुज्जयंतमहातीर्थे आत्मनस्तथा स्वधर्मचारिण्याः प्राग्वाटजातीयव० श्रीकान्हडपुत्र्याः ट० राणूकुक्षिसंभूताया महं • श्रीललितादेव्याः (*) पुण्याभिवृद्धये श्रीनागेंद्र गच्छे भट्टारक श्री महेंद्रसूरि संताने शिष्य श्रीशांतिसूरि शिष्यश्रीआणंदसूरिश्रीअमरसूरिपढ़े भट्टारक श्रीहरिभद्रसूरि पट्टालंकरणप्रभुश्रीविजय सेन सूरिप्रतिष्ठितश्री अजितनाथ देवादिविंशतितीर्थंकरालंकृतोऽयमभिनवः समंडप : श्री सम्मेतमहातीर्थावतारप्रासादः कारितः ॥ (*)
C
४८
०
·