________________
प्राचीनजैनलेखसंग्रहै यद्ध्यान [ भ ]विपापपंकदलने गंगांबुधारायते . श्रीसिद्धार्थनरेंद्रनंदनजिनः सोऽस्तु श्रिये सर्वदा ॥ ५ ॥
अथ पक्षावली। श्रीवर्द्धमानजिनराजपदक्रमण _श्रीार्यरक्षितमुनीश्वरसूरिराजाः । विद्यापगाजलधयो विधिपक्षगच्छ
संस्थापका यतिवरा गुरवो वभूवुः ॥ ६ ॥ तचारुपट्टकमला ज]लराजहंसा
चारित्रमंजुकमलाश्रवणावतंसाः । गच्छाधिपा बुधवरा जयसिंहसूरि
नामान उ-बदमलोरुगुणावदाताः ॥ ७ ॥ श्रीधर्मघोषगुरवो वरकीर्तिभाजः
सूरीश्वरास्तदनु पूज्यमहेंद्रसिंहाः । आसंस्ततः सकलमूरिशिरोवतंसाः
सिंहप्रभाभिधसुसाधुगुणप्रसिद्धाः ॥ ८ ॥ तेभ्यः क्रमेण गुरवो जिनसिंहमूरि
गोत्रा बभूवुरथ पुज्यतमा गणेशाः । देवेंद्रसिंहगुरवोऽखिललोकमान्या
धर्मप्रभा मुनिवरा विधिपक्षनाथाः ॥ ९ ॥ पुयाश्च सिंहतिलकास्तदनु प्रभूत
भाग्या महेंद्रविभवो गुरवो बभूवुः । चक्रेश्वरीभगवतीविहितप्रसादाः ... श्रीमेरुतुंगगुरवो नरदेववंचाः ॥ १० ॥.