________________
लेखाङ्कः-२७ ।
(२७)
संवत् १६८३ वर्षे । पातिसाहजिहांगीरश्रीसलेम साहभूम - डलाखंड विजय रा [ ज्ये ] | श्रीचक्रेश्वरीनमः ॥ ॐ ॥ महोपाध्यायश्री ५ श्री हेममूर्तिगणिसद्गुरुभ्यो नमः ॥ श्री ॥ ॐ ॥ ॥ ॐ नमः ॥ स्वस्ति श्रीः शिवशंकरोऽपि गणमान् सर्व्वज्ञशत्रुंजयः शः शंसुरीश्वर भगवान् गौरो वृषांको मृड: । गंगोमापतिरस्त कामविकृतिः सिद्धैः कृताऽतिस्तुती रुद्रो यो न परं श्रियेस जिनपः श्रीनाभिभूरस्तु मे ॥ १ ॥ उद्यच्छ्रीरजडः कलंकरहितः संतापदोषाऽपहः
सोम्यः प्राप्तस [...]याऽमितकलः सुश्रीर्मृगांकोऽव्ययः । गौरानोमृतसूरपास्तकलुपो जैवातृकः प्राणिनां चंद्रः [ कर्म ] जयत्यहो जिनपतिः श्रीवैश्वसेनिर्महान् ॥ २ ॥ त्यक्त्वा राजीमती यः स्वनिहितहृदयानेकपत्नी: पां सिद्धिखीं भूरिरक्तामपि बहु चकमे नेकपत्नीमपीशः । लोके ख्यातस्तथापि स्फुरदतिशय [वान् ] ब्रह्मचारीतिनाना स श्रीनेमिजिनेंद्रो दिशतु शिवसुखं सात्वतां योगिनाथः ॥ ३ ॥ चंचच्छारदचंद्रचा [ रुव ]दनश्रेयोविनिर्यद्वचःपेयूपौधनिषेकतो विषधरेणापि प्रपेदे द्रुतम् । देवत्वं सुकृतैकलभ्य [ म ]तुलं यस्यानुकंपानिधेः
स श्री पार्श्वजिनेशितास्तु सततं विघ्नच्छिदे सात्वताम् ॥ ४ ॥ यस्य श्रीवशास [ नं ] क्षितितले मार्तंडविंवायते यद्वाक्यं भवसिन्धुतारण विधौ पोतायते देहिनाम् ।
३६