________________
लेखाङ्कः-२७॥ तेभ्योऽभवन् गणधरा जयकीर्तिमूरि___ मुख्यास्ततश्च जयकेसरिसूरिराजः । सिद्धांतसागरगणाधिभुवस्ततोऽनु
श्रीभावसागरगुरूरुगुणा अभूवन् ॥ ११ ॥ तवंशपुष्करविभासनभानुरूपाः सूरीश्वराः सुगुणशिवधयो बभूवुः ।। षट्पदी ॥ तत्पट्टोदयशैलशृंगकिरणाः शास्त्रांवुधेः पारगा
भव्यस्वांतचकोरलासनलसत्पूर्णाभचंद्राननाः । श्रीमंतो विधिपक्षग[च्छ]तिलका वादींद्रपंचानना
आसन् श्रीगुरुधर्ममूर्तिगुरवः सूरींद्रवंद्यां यः ॥ १२ ॥ तत्पट्टेऽथ जयंति मन्मथभटाहंकारशोपमाः
श्रीकल्याणसमुद्रसरिगुरवः कल्याणकंदांबुदाः । भव्यांभोजविवोधनैककिरणाः सद्ज्ञानपाथोधयः
श्रीमंतोऽत्र जयंति सूििवभुभिः सेव्याः प्रभावोद्यताः ॥१३॥
श्रीश्रीमालज्ञातीय मंत्रीश्वरश्रीभंडारी तत्पुत्र महं श्रीअमरसी सुत महं श्रीकरण तत्पुत्र सा श्रीधन्ना तत्पुत्र साह श्रीसोपा तत्पुत्र सा० श्रीवंत तद्भार्या उभयकुलानंददायिनी बाई श्रीसोभागदे तत्कुक्षिसरोराजहंस साह श्रीरूपं तद्भगिनी उभयकुलानंददायिनी परमश्राविका हीरवाई पुत्र पारीक्ष श्रीसोमचंद्रप्रभृतिपरिकरयुतया। संवत् १६८३ वर्षे माघ सुदि त्रयोदशी तिथौ सोमवासरे [ श्री ] चंद्रप्रभस्वामिजिनमंदिरजीर्णोद्धारः कारितः। श्रीराजनगरवास्तव्य महं भंडारी प्रसाद कराविउ हुतु तेहनइ वठी पेढीई वाई श्रीहीरवाई हुई तेणीइ प.........."(हिलउ?) उद्धार कराविउ ।