________________
३०
प्राचीन नलेखसंग्रहे श्रीसिद्धांतसमुद्राख्यसूरयो भूरिकीर्त्तयः । भावसागरसूरींद्रास्ततोऽभूवन् गणाधिपाः ॥ ११ ॥ श्रीमद्गुणनिधानाख्यसूरयस्ततपदेऽभवन् । युगप्रधानाः श्रीमंतः सृरिश्रीधर्ममूर्तयः ॥ १२ ॥ तत्पट्टोदयशेलाग्रप्रोवत्तरणिसंनिभाः । जयंति सूरिराजः श्रीयुजः कल्याणसागराः ॥ १३ ॥ श्रीनव्यनगरे वास्युपकेशज्ञातिभूषणः। इभ्यः श्रीहरपालाद आसील्लालणगोत्रकः ॥ १४ ॥ हरीयाख्यो ऽथ तत्पुत्रः सिंहनामा तदंगजः ।। उदेसीत्यथ तत्पुत्रः पर्वताहस्ततो ऽभवत् ।। १५ ॥ वच्छ्रनामा ऽथ तत्पत्नी चाभूद्वाच्छलदेविका । तत्कुक्षिमानसे हंसतुल्यो ऽथाऽमरसंज्ञकः ॥ १६ ॥ लिंगदेवीति तत्पत्नी तदौरस्यास्त्रयो वराः।
जयंति श्रीवर्धमानचांपसीपद्मसिंहकाः ॥ १७ ॥ अतः परं विशेषतः साहिवर्धमानसाहिपद्मसिंहयोवर्णनम् ।
गांभीर्येण समुद्राभो दानेन धनदोपमौ । श्रद्धालुगुणसंपूर्णी बोधिना श्रेणिकोपमौ ।। १८ ॥ प्राप्तश्रीयामभूपालसमाजबहुलादरौं । मंत्रिश्रीवर्द्धमानश्रीपद्मसिंहौ सहोदरौ ॥ १९ ॥ महेला वर्द्धमानस्य बन्नादेवीति विश्रुता । तदंगजावुभौ ख्यातो वीराख्यविजपालकौं ।। २० ॥ वर्णिनी पद्मसिंहस्य रत्नगर्भा सुजाणदे।। श्रीपालकुंरपालादरणमल्लास्तदंगजाः ॥ २१ ॥ एवं स्वतंत्रयुक्ताभ्यामनल्पोत्सवपूर्वकम् । साहिश्रीवर्तमानश्रीपद्मसीभ्यां प्रथादरात् ॥ २२ ॥