________________
३१
लेखाङ्कः-२१। मागुक्तवत्सरे रम्ये माधवार्जुनपक्षके । रोहिणीभतृतीयायां बुधवासरसंयुजि ॥ २३॥ श्रीशांतिनाथमुख्यानां जिनानां चतुरुत्तरा। द्विशती प्रतिमा हृद्या भारिताश्च प्रतिष्ठिताः ॥ २४ ॥
(युग्मम् ।) पुनर्निजबहुद्रव्यसफलीकरणकृते । श्रीनव्यनगरे ऽकारि प्रासादः शैलसंनिभः ॥ २५ ॥ द्वासप्ततिजिनौकोभिर्वेष्टितश्च चतुर्मुखैः।। कैलासपतोत्तुंगैरष्टाभिः शोभितो ऽभितः ॥ २६ ॥
(युग्मम् ।) साहिश्रीपद्मसिंहेनाऽकारि शत्रुजयोपरि । उत्तुंगतोरणः श्रीमान् प्रासादः शिखरोन्नतः ॥ २७ ॥ य दृष्ट्वा भविकाः सर्वे चिंतयंति स्वचेतसि ।। उच्चभूतः किमेषोऽद्रिदृष्यते ऽभ्रंलिहो यतः ॥२८॥ येन श्रीतीर्थराजोऽयं राजते सावतंसकः। प्रतिमाः स्थापितास्तत्र श्रीश्रेयांसमुखाऽर्हताम् ॥ २९ ॥
तथा च-संवत् १६७६ वर्षे फाल्गुन सित द्वितीयायां तिथौ दैत्यगुरुवासरे रेवतीनक्षत्रे श्रीमतो नव्यनगरात् साहिश्रीपद्मसीकेन श्रीभरतचक्रवर्तिनिर्मिमतसंघसदृशं महासंघं कृत्वा श्रीअंचलगणाधीश्वरभट्टारकपुरंदरयुगप्रधानपूज्यराजश्री ५ श्रीकल्याणसागरसूरीश्वरैः सार्द्ध श्रीविमलगिरितीर्थवरे समेत्य स्वयंकारितश्रीशनंजय गिरिशिरःप्रासादे समहोत्सवं श्रीश्रेयांसपमुखजिनेश्वराणां संति बिवानि स्थापितानि । सद्भिः पूज्यमानानि चिरं नंदतु ।
यावद्विभाकरनिशाकरभूधरार्य. रत्नाकरध्रुवधराः किल जाग्रतीह। .