SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-२१। ( २१ ) || 30 || स्वस्ति श्रीवत्सभर्तापि न विष्णुश्चतुराननः । न ब्रह्मा यो वृषांकोपि न रुद्रः स जिनः श्रिये ॥ १ ॥ संवत् १६७५ वर्षे शाके १५४१ प्रवर्तमाने समग्र देश शृंगार हाल्ला र तिलकोपमम् । अनेकेभ्य गृहाकीर्ण नवीनपुरमुत्तमम् ॥ २ ॥ अभ्रंलिहविहाराग्रध्वजांशुकहृतातपम् । रूप्यस्वर्णमणिव्याप्तचतुष्पथविराजितम् ॥ ३ ॥ ( युग्मम् । ) तंत्र राजा [म] शास्ति श्रीजसवंताभिधो नृपः । यामश्रीशत्रुशल्याह्वकुलांवर नभोमणिः ॥ ४ ॥ यत्प्रतापानिसंतापसंतप्त इव तापनः । निर्माति जलधौ नित्यमुन्मज्जननिमज्जने ॥ ५ ॥ ( युग्मम् । ) बभूवुः श्रीमहावीरपट्टानुक्रमभूषणाः । श्रीअंचलगणाधीशा आरक्षितसूरयः ॥ ६ ॥ तत्पट्टपंकजादित्याः सूरिश्रीजयसिंहकाः । श्रीधर्मघोषसूरींद्रा महेंद्रात्सिंहसूरयः ॥ ७ ॥ श्रीसिंहप्रभसूरीशाः सूरयो ऽजितसिंहकाः । श्रीमद्देवेन्द्रसूरीशाः श्रीधर्मप्रभसूरयः ॥ ८ ॥ श्री सिंह तिलकाद्दाश्च श्रीम [हे] न्द्रमभाभिधाः । श्रीमंतो मेरुतुंगाख्या वभूवुः सूरयस्ततः ॥ ९ ॥ समग्रगुणसंपूर्णाः सूरिश्रीजय कीर्तयः तत्पदेऽथ सुसाधुश्रीजय केसरिसूरयः ॥ १० ॥ २९ i
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy