________________
२८८
प्राचीनजनके ससंघ
श्रीपार्श्वनाथस्य च वर्द्धमान प्रभोः प्रतिष्ठां जगतामभीष्टाम् । वनैर्धनैः कारयतः स्प वन्धू ताँ बार्द्धिपाथोव्धिकला मितेऽद्रे १६४४ ॥ ३३ ॥ श्री विजय सेनसृरिर्निर्ममे निमेश्वरः । इमां प्रतिष्ठां श्रीसङ्घकैरवाकरकौमुदम् || ३४ || चिन्तामणेरिवात्यर्थं चिन्तितार्थविधायिनः । नामास्य पार्श्वनाथस्य श्री चिन्तामणिरित्यभूत् ॥ ३५ ॥ अङ्गुलैरेकचत्वारिंशता चिन्तामणेः प्रभोः । संमिता शोभते मूर्त्तिरेषा शेषादिसेविता || ३६ ॥ सदैव विध्यापयितुं प्रचण्डभयप्रदीपानिव सप्तसर्पान् । योऽवस्थितः सप्त फणान् दधानो विभाति चिन्तामणिपार्श्वनाथः || ३७ || athy सप्तस्वपि सुप्रकाश किं दीमदीपा युगपद्विधातुम् ।
रेजुः फणाः सप्त यदीयमूर्ध्नि
मणित्विषा ध्वस्ततमः समूद्दाः ॥ ३८ ॥ सहोदराभ्यां सुकृतादराभ्या
माभ्यामिदं दत्तममोदम् । व्यधायि चिन्तामणिपार्श्वचैत्य
-
मपत्यमुर्व्वीधरभित्सभायाः || ३९ ||
यत्
निकामं कामितं कामं दत्ते कल्पलतेव चैत्यं कामदनामैतत् सुचिरं श्रियमश्नुताम् ॥ ४० ॥