________________
लेखाङ्कः-४३०। श्रीमत्केल्ह (*)णमंटलपतितनयायां नयैकशालिन्यां। तत्पप्रणयिन्यां शृंगारपदोपपददेव्यां ॥३॥ एतद्रामप्राभाववैभवभूति तत्प्रदत्तसाचिव्ये । सकलकलाकुलकुशले गृहमेधिनि नागडे सचिवे ॥ ४ ॥ दिः (द्विः) स्मरशरदिनकरमितवर्षे शुचिशस्यसंपदुत्कर्षे । दुंदुभिनामनि धामनि(*)विटपपल्लवितधर्मधियां ॥ ५ ॥ एतत्पद्कचतुष्किकाविरचितश्रीमंडपोद्धारतः
पुण्यं पण्यमगण्यमाकलयति श्रीवीरगोष्ठीजनः । मन्ये किंतु चतुष्किकाद्वयमिदं दत्ताभिमुख्यस्थिति
स्थेयस्तत्कलिमोहभूपयुगली जित्वात्पत्रद्वयीं ॥ ६ ॥ इंदुः कुंदसितैः करैः पुलकयत्याकाशः(*)वल्ली मृदु
विद्भानुरसौ तनोति परितोप्याशाः प्रकाशोज्ज्वलाः तावद्धार्मिकधर्मकर्मरभसप्रारब्धकल्याणिक
गीतवाद्यविधिभिः जीयात्रिकं सर्वतः ॥७॥ राज्ञा शृंगारदेव्यात्र वाटिका भूमिरद्भुता। दत्ता श्रीवीरपूजार्थ शास्वतः श्रेयसः श्रिये ॥ ८॥ साक्षिता दा(#)णिकः साक्षात्मेक्षा दाक्ष्यवृहस्पतिः । अत्राभून्नीरडो वर्मा सौत्रधारेसु कर्मसु ॥ ९॥ छ । पूज्यपरमाराध्यतमश्रीतिलकमभसूरीणां कृतिरियं ॥ छ ।। संवत १२५५ आसोयसुदि ७ बुधवारे सकलगोष्ठिकलोकः त्रिकोदारं स्वश्रेयसे कारितवानिति ॥ छ॥
-
-
-
-