________________
६६८.
प्राचीनजे नलेख संग्रहे
अभूदधानो युवराजमुद्रां
तस्मात् कुमारो गजसिंहनामा |
गत्या गजो (*)तीववलेन सिंहस्तेनैव लेभे गजसिंहनाम ॥ २२ ॥
श्रीओसवालाऽन्वयवार्द्धिचंद्रः प्रशस्तकार्येषु विमुक्ततंद्रः ।
विज्ञप्रगेयोचितवालगोत्रः
पणे (*)वपि स्वचत्वगोत्रः || २३ ||
आसन्निवासी नगरान्तरे च
प्रायः प्रभूतैर्द्रविणैरुपेतः ।
जगाभिधानो जगदीश सेवा
देवाभिरामो व्यवहारिमु (*) ख्यः ॥ २४ ॥
द्वाभ्यां युग्मं ।
विद्यापुर : रिमुवाचकानां करे पुरे योधपुराभिधाने । दंतप्रमाणाछत्र्या जगाख्यः
स एष तुर्यव्रतमुच्चचार ।। २५ ।। तदंगजन्मा ( * ) जनितप्रमोदः
पुण्यात्मनां पुण्यसहायभावात् । विशिष्टदानादिगुणैः सनाथो
नाथाभिधो नाथसभाप्तमानः ।। २६ ।। तस्योज्ज्वलस्फारविशालशीला
भार्या(*)भवद गुर्जरदे मुनामा । रूपेण वर्या गृहभारधुर्या
श्रीदेवगुवः परिचर्ययार्या ॥ २७ ॥