SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-६४ । मल्लदेवसचिवस्य नंदनः पूर्णसिंह इति लीलुकासुतः । तस्य नंदतिसुतोयमह्नणा (*)देविभूः सुकृतवेश्म पेथडः ॥ ५८ ॥ अभूदनुपमा पत्नी तेजःपालस्य मंत्रिणः । लावण्यसिंहनामायमायुष्मानेतयोः सुतः ॥ ५९ ॥ तेजःपालेन पुण्यार्थं तयोः पुत्रकलत्रयोः । हर्म्य श्रीनेमीनाथस्य तेने तेनेदमर्बुदे ( * ) || ६० ॥ तेजःपाल इति क्षितीं दुसचिवः शंखोज्ज्वलाभिः शिलाश्रेणीभिः स्फुरदिंदुकुंदरुचिरं नेमिप्रभो मंदिरं । उच्चैमंडपमग्रतो जिन[वरा]वासद्विपंचाशतं तत्पार्श्वेषु वलानकं च पुरतो निष्पादयामासिवान् ॥ ६१ ॥ श्रीमच्चंड (*), [प] संभवः [सम] भवच्चंडप्रसादस्ततः सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्रीमल्लूणिग मल्लदेव सचिव श्रीवस्तुपालादया ८३ स्तेजःपालसमन्विता जिनमतारामोन्नमन्नीरदाः ॥ ६२ ॥ श्रीमंत्री श्वरवस्तुपालतनयः श्रीजै ( * ) त्रसिंहाहयस्तेजःपालसुतश्च विश्रुतमतिर्द्धावण्यसिंहाभिधः । एतेषां दश मूर्त्तयः करिवधूस्कंधाधिरूढाविरं राजते जिनदर्शनार्थमयतां दिनायकानामिव ॥ ६३ ॥ मूर्तीनामिह पृष्ठतः करिवधू पृष्ठमतिष्ठाजुपां तन्मूत्तीर्विम (*) लाश्मखत्तकगताः कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वैतबंधुः सुधी स्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ||६४ ||
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy