________________
प्राचीनजैनलेखसंग्रहे प्राग्वाटान्वयमंडनैकमुकुटः श्रीसांद्रचंद्रावती__वास्तव्यः स्त(*)वनीयकीर्तिलहरिप्रक्षालित्तक्ष्मातलः । श्रीगागाभिधया सुधीरजनि यदृत्तानुरागादभूत् .
को नाप्तप्रमदो न दोलितशिरा नोद्धृतरोमा पुमान् ॥५०॥ अनुसृतसज्जनसरणिधरणिगनामा बभूव तत्तनयः। स्वप्रमुहदये(*)गुणिना हारेणेव स्थितं येन ॥ ५१ ।। त्रिभुवनदेवी तस्य त्रिभुवनविख्यातशीलसंपन्ना । दयिताऽभूदनयोः पुनरंग देधा मनस्त्वेकं ॥ ५२ ॥ अनुपमदेवी देवी साक्षादाक्षायणीव शीलेन । तदुहिता सहिता श्रीतेजपालेन(*) पत्याऽभूत् ।। ५३ ॥ इयमनुपमदेवी दिव्यवृत्तप्रसून
व्रततिरजनि तेजःपालमंत्रीशपत्नी । नयविनयविवेकौचित्यदाक्षिण्यदान
प्रमुखगुणगणेंदुघोतिताशेपगोत्रा ॥ ५४ ॥ लावण्यसिंहस्तनयस्तयोरयं
रयं जयन्नि(*) द्रिीयदृष्टवाजिनां। लम्चापि मीनध्वजमंगलं वयः
प्रयाति धम्मकविधायिनाऽध्वना ॥ ५५ ॥ श्रीतेजपालतनयस्य गुणानमुप्य
श्रीलूणसिंहकृतिनः कति न स्तुवंति । श्रीवंधनोधुरतरैरपि यः समंता
दुद्दामता त्रिजगति क्रि(*,यते स्म कीर्तेः ॥ ५६ ॥ गुणधननिधानकलशः प्रकटोऽयमवेष्टितश्च खलसः । उपचयमयते सततं सुजनरूपजीपमानोऽपि.॥५७॥
.