________________
नित्योत्सवः एताः सम्प्रदाययोगिन्यः सर्वसौभाग्यदायके चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः संतर्पिताः सन्त्विति तासामेव समष्टयर्चनं विधाय, सर्वसङ्क्षोभिण्याः पुरतः ऐं ह्रीं श्रीं हैं हक्लीं सौः त्रिपुरवासिनीचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः । ब्लू इति सर्ववशङ्करीमुद्रां समुन्मीलयेत् ॥
अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥
इति चतुर्थावरणम् ॥
पञ्चमावरणम् एकारप्रकृतिकदशावतारात्मकविष्णुस्वरूपे प्रभापराभूतसिन्दूरे . बहिर्दशारे देव्यप्रकोणाद्यप्रादक्षिण्येन
ऐं ह्रीं श्रीं सर्वसिद्धिप्रदा श्रीपादुकां पूजयामि तर्पयामि नमः, सर्वसम्पत्प्रदा, सर्वप्रियङ्करी, सर्वमङ्गळकारिणी, सर्वकामप्रदा, सर्वदुःखविमोचिनी, सर्वमृत्युप्रशमनी, सर्वविघ्ननिवारिणी, सर्वाङ्गसुन्दरी, सर्वसौभाग्यदायिनीश्रीपादुकां
पूजयामि तर्पयामि नमः ॥ एताः कुलोत्तीर्णयोगिन्यः सर्वार्थसाधके चक्के समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः संतर्पिताः सन्त्विति तासामेव समष्टयर्चनं विधाय सर्वसिद्धि प्रदाया धुरि ऐं ह्रीं श्रीं हस्ती ह्स्सौः त्रिपुराश्रीचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः इति समभ्यर्च्य, सः इति उन्मादिनीमुद्रां उद्घाटयेत् ॥
- सर्वपर्यायेषु अत्र 'देवी' इत्यधिकः--श्री. प्रदायिन्याः पुरतः-अ.