________________
यौवनोल्लासः तृतीयः-श्रीक्रमः अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
इति पञ्चमावरणम्
• षष्ठावरणम् रेफप्रकृतिकदशकलाऽऽत्मकवैश्वानराभिन्ने जपासुमनस्सहचरे अन्तर्दशारे देव्यप्रकोणमारभ्य वामावर्तेन
ऐं ह्रीं श्रीं सर्वज्ञा'श्रीपादुकां पूजयामि तर्पयामि नमः, सर्वशक्ति, सर्वैश्वर्यप्रदा, सर्वज्ञानमयी, सर्वव्याधिविनाशिनी, सर्वाधारस्वरूपा, सर्वपापहरा, सर्वानन्दमयी, सर्वरक्षास्वरूपिणी, सर्वेप्सितफलप्रदाश्रीपादुकां पूजयामि
तर्पयामि नमः ॥ एताः निगयोगिन्यः सर्वरक्षाकरे चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः संतर्पिताः सन्त्विति तासामेव समष्टयर्चनं 'विधाय, सर्वज्ञायाः पुरतः ऐं ह्रीं श्रीं ह्रीं क्लीं ब्लें त्रिपुरमालिनीचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः इत्यर्चयित्वा, क्रों इति सर्वमहाङ्कुशमुद्रां अङ्कुरयेत् ॥
अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं षष्ठमावरणार्चनम् ॥
इति षष्ठावरणम्
1'देवी' इत्यधिक:-श्री.
'अङ्करयेत्-१.