________________
यौवनोल्लासः तृतीयः -- श्रीक्रमः
तृतीयावरणम्
हकारप्रकृतिकाष्टमूर्त्यात्मकशिवाभिन्ने जपाकुसुममित्रे ' अष्टपत्रे श्रीदेव्याः पृष्ठदळमारभ्य पूर्वादिदिक्षु आग्नेयादिविदिक्षु च क्रमात् -
ऐं ह्रीं श्रीं अनङ्गकुसुमादेवी श्रीपादुकाां पूजयामि तर्पयामि नमः, अनङ्गमेखला, अनङ्गमदना, अनङ्गमदनातुरा, अनङ्गरेखादेवी, अनङ्गवेगिनी, अनङ्गाङ्कुशा, अनङ्गमालिनीदेवी श्रीपादुकां पूजयामि तर्पयामि नमः || एताः गुप्ततरयोगिन्यः सर्वसङ्क्षोभिणीचक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः संतर्पिताः सन्त्विति तासामेव समष्ट्यर्चनं विधाय अनङ्गकुसुमाया अग्रे ऐं ह्रीं श्रीं ह्रीं क्लीं सौः त्रिपुरसुन्दरीचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः इति संविभाव्य, क्लीं इति सर्वाकर्षिणीमुद्रां उन्मुद्रयेत् ॥
अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
इति तृतीयावरणम् ॥
६५
चतुर्थावरणम्
ममिश्रे - अ. मामेभ.
* भणे – अ, अ१, ब२, ब३, भ.
55
ईकारप्रकृतिकचतुर्दशभुवनात्मकमहामायारूपे दाडिमीप्रसूनसहोदरे चतुर्दशारे देव्यग्रकोणमारभ्य वामावर्तेन
ऐं ह्रीं श्रीं सर्वसङ्क्षोभिणी श्रीपादुकां पूजयामि तर्पयामि नमः, सर्वविद्राविणी, सर्वाकर्षिणी, सर्वाह्लादिनी, सर्वसम्मोहिनी, सर्वस्तम्भिनी, सर्वजृम्भिणी, सर्ववशङ्करी, सर्वरञ्जिनी, सर्वोन्मादिनी, सर्वार्थसाधिनी, सर्वसम्पत्तिपूरणी, सर्वमन्त्रमयी, सर्वद्वन्द्वक्षयङ्करी श्रीपादुकां पूजयामि तर्पयामि नमः ॥
2
अष्टदपत्रे - अ.
' अत्रत्यपर्यायेषु 'शक्ति' इत्यधिकः -श्री.