________________
नित्योत्सवः
श्वरीश्रीपादुकां पूजयामि तर्पयामि नमः इति सम्पूज्य, द्रां इति सर्वसङ्क्षोभिणीमुद्रां प्रदर्शयेत् ॥
अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ।।
इति प्रथमावरणम्
द्वितीयावरणम् श्वेतवर्णे सकारप्रकृतिकषोडशकलाऽऽत्मके चन्द्रस्वरूपे सवदमृतरसे षोडशदळकमले देव्यप्रदळमारभ्य वामावर्तेन (अप्रादक्षिण्येन)
ऐं ह्रीं श्रीं कामाकर्षिणीनित्याकळा देवीश्रीपादुकां पूजयामि तर्पयामि नमः, बुद्ध्याकर्षिणी, अहङ्काराकर्षिणी, शब्दाकर्षिणी, स्पर्शाकर्षिणी, रूपाकर्षिणी, रसाकर्षिणी, गन्धाकर्षिणी, चित्ताकर्षिणी, धैर्याकर्षिणी, स्मृत्याकर्षिणी, नामाकर्षिणी, बीजाकर्षिणी, आत्माकर्षिणी, अमृताकर्षिणी,
शरीराकर्षिणीनित्याकळादेवीश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इत्यभ्यर्च्य, एताः गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्निति तासामेव समष्टयर्चनं विधाय कामाकर्षिण्याः पुरतो ऐं क्लीं सौः त्रिपुरेशीचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः इत्यवमृश्य, द्रीं इति सर्वविद्राविणीमुद्रां प्रदर्शयेत् ॥
अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
इति द्वितीयावरणम्
1 'देवी' इति (श्री) कोश एव दृश्यते.