________________
यौवनोल्लासः तृतीयः-श्रीक्रमः
आवरणपूजा
प्रथमावरणम् एतद्देवतास्वरूपं तु प्रागुक्तमेव । क्रमेण शुक्लारुणपीतवर्ण रेखात्रयस्य लकारप्रकृतिकपृथिव्यात्मकस्य चतुरश्रस्य प्रवेशरीत्या प्रथमरेखायां पश्चिमादिद्वारचतुष्टयदक्षिणभागेषु वाय्वादिकोणेषु च पश्चिमनैर्ऋतयोः पूर्वेशानयोश्च मध्ये क्रमेण
ऐं ह्रीं श्रीं अणिमासिद्धिश्रीपादुकां पूजयामि तर्पयामि नमः, लघिमा, महिमा, ईशित्व, वशित्व, प्राकाम्य, भुक्ति, इच्छा, प्राप्ति, सर्वकामसिद्धि
श्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति स्वस्य तत्तदाभिमुख्यं भावयन् पूजयेत् । एवं उत्तरत्रापि । अत्र देव्याः पुरतः पश्चिमादिदिक् । पश्चिमनैर्ऋतयोर्मध्ये अघोदिक् । पूर्वेशानयोर्मध्ये चोर्ध्वदिक् इति विवेकः ॥
अथ चतुरश्रमध्यरेखायां प्रागुक्तद्वारवामभागेषु कोणेषु च क्रमेण
ऐं ह्रीं श्रीं ब्राह्मीमातृदेवीश्रीपादुकां पूजयामि तर्पयामि नमः, माहेश्वरी, कौमारी, वैष्णवी, वाराही, माहेन्द्री, चामुण्डा, महालक्ष्मीमातृदेवीश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ततः चतुरश्रान्त्यरेखायां प्रथमरेखोक्तक्रमेण
ऐं ह्रीं श्रीं सर्वसङ्क्षोभिणीमुद्राशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः, सर्वविद्राविणी, सर्वाकर्षिणी, सर्ववशङ्करी, सर्वोन्मादिनी, सर्वमहाङ्कुशा, सर्वखेचरी, सर्वबीज, सर्वयोनि, सर्वत्रिखण्डमुद्राशक्तिश्रीपादुकां पूजयामि
तर्पयामि नमः ॥ इति पूजयित्वा,
___एताः प्रकटयोगिन्यः त्रैलोक्यमोहने चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्त्विति तासामेव समष्टयर्चनं पुष्पाञ्जलिना कृत्वा अणिमासिद्धेः पुरतो ३ अं आं सौः त्रिपुराचक्रे