________________
६२
कंल्पसूत्रस्य काळीमतान्तर्गतत्वात् इदं पारम्पर्यत्रयं तदनुगमेव । विद्यार्णवोक्तश्रीषोडशाक्षरीगुरुपादुकापारम्पर्यस्य कादिकाळ्युभयमतसम्मतत्वं ज्ञेयम् ॥
नित्योत्सवः
अज्ञातगुरुपारम्पर्याणां गुरुक्रमः
अथ प्रासङ्गिकः अज्ञातगुरुपारम्पर्याणां गुरुक्रमो यथा
सर्वानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ 'सिद्धानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || गोविन्दानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः |
शङ्करानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ||
ऐं ह्रीं श्रीं ऐं गुरुभ्यो नमः ॥
३
m m m
दिव्यौघः
सिद्धौघः
ऐं ह्रीं श्रीं ऐं परमगुरुभ्यो नमः ॥
३
३ ऐं परमगुरुपादुकाभ्यो नमः ||
३
ऐं गुरुपादुकाभ्यो नमः ॥
मानवौघः
ऐं ह्रीं श्रीं ऐं आचार्येभ्यो नमः ॥
ऐं आचार्यपादुकाभ्यो नमः ॥
ऐं पूर्वसिद्धेभ्यो नमः ॥
३ ऐं पूर्वसिद्धपादुकाभ्यो नमः ॥
एवं स्वस्योपास्यविद्यौघत्रयसपर्यो विधाय स्वशिरसि पूर्वोक्तरूपं श्रीगुरुं ध्यात्वा, पूर्वोक्तेन श्रीगुरुपादुकामन्त्रेण श्रीगुरुं त्रिर्यजेत् ॥
इति गुरुमण्डलार्चनम् ॥ एतावल्लयाङ्गपूजनमित्युच्यते ॥
'स्वच्छानन्द' इत्यधिकः पर्यायः (अ) कोशे.