________________
यौवनोल्लासः तृतीयः----श्रीक्रमः इति भूमिं प्रार्थ्य धरणीतलन्यम्तवहन्नाडीपार्श्वपादमुत्थाय ग्रामात् बहिः स्मार्तेन विधिना निर्वर्तितशौचक्रियः
आयुर्वलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ इति मन्त्रेण दन्तधावनकाष्ठमभिमन्व्य, ऐं ह्रीं श्रीं क्लीं कामदेवाय सर्वजनप्रियाय नमः इति मन्त्रेण दन्तधावनं, ऐं ह्रीं श्रीं हृल्लेखया जिह्वोल्लेखनं च विधाय, कफविमोचननासाशोधनदृषिकानिरसनपूर्वकं विहितविंशतिगण्डूषः, ऐं ह्रीं श्रीं श्रीं--ह्रीं श्रीं ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमःएं ह्रीं श्रीं श्रीं ह्रीं क्लीं-ऐं ह्रीं श्रीं 'सहकलह्रीं श्रीं-इति मन्त्रचतुष्टयेन मुखं प्रक्षाळ्य यथास्मृत्याचामेत् ॥
स्नानविधिः ततो नद्यादौ वैदिकस्नानोत्तरं श्रीललिताप्रीत्यर्थं तान्त्रिकस्नानं करिष्ये इति सङ्कल्प्य. जले पुरतो हस्तमात्रं चतुरश्रमण्डलं परिगृह्य, तत्र--
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे ।
तेन सत्येन मे देव तीर्थ देहि दिवाकर ॥ इति सूर्यमभ्यर्थ्य,
आवाहयामि त्वां देवि स्नानार्थमिह सुन्दरि ।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ इति गङ्गामर्थयित्वा ऐं ह्रीं श्रीं ह्वां ह्रीं ह्यूं हैं ह्रौं हः क्रों इत्यङ्कुशमुद्रया सूर्यमण्डलं भित्त्वा, ततो गङ्गाऽऽदिसर्वतीर्थावाहनोत्तरं वं इति सलिलबीजेन सप्तवारमभिमन्त्र्य, मुहुर्मूलमावर्तयन् मूर्धनि त्रीनुदकाञ्जलीन् दत्वा, त्रिरपश्च पीत्वा, मूलपूर्व श्रीललितां तर्पयामीति त्रिस्तर्पणं, मूलेन त्रिः प्रोक्षणं च आत्मनो योनिमुद्रया विदध्यात् ।।
. ' सकल-अ, अ१. हसकल-बर.