________________
नित्योत्सवः
चिद्विमर्श:
तेन च नियमितपवनमन:स्पन्दः आमूलाधारं आ च ब्रह्मरन्धमुद्द्वतां तटिलतासदृशाकृतिं तरुणारुणपिञ्जरतेजसं ज्वलन्तीं सर्वकारणभूतां परां संविदं विचिन्त्य
ચૂંટ
हृदा मूलावृत्ति: तद्रश्मिनिकरभस्मितसकलकश्मलजालो मूलं मनसा दशवारमावर्त्य
रश्मिमालास्मरणम्
वक्ष्यमाणान् रश्मिमालामन्त्रांश्च एकवारमावर्त्तयेत् । रश्मिस्रुगावर्तनं तु
त्रैवर्णिकविषयम् ॥
यदि प्रबोधसमकालमावश्यकोपाधिस्तदा तन्निरसनपूर्वमुक्तमनुतिष्ठेत् ॥ इति काव्यकृत्यम् ||
अजपा गायत्रीभावनम
1 [इति देव प्रार्थ्य गुरूपदेशेन ज्ञातं सहजसिद्धं अजपाजपं निवेदयेत् । मया पूर्वेद्युरजपां षट्छताधिक - एकविंशतिसाहत्रिकां निःश्वासोच्छ्वासरूपिणीं मूलाधारादिब्रह्मरन्ध्रान्तसप्तचक्रनिवासिनीभ्यो देवताभ्यो निवेदयामीति सङ्कल्प्य हंसस्सोऽहं इति मन्त्रं पञ्चविंशतिवारं जपित्वा तदुपरि निःश्वासोच्छ्रासादिकं गायत्रीरूपं भावयित्वा ॥
प्रातः प्रभृतिसायान्तं सायादिप्रातरन्ततः । यत्करोमि जगद्योने तदस्तु तव पूजनम् ॥]
भूप्रार्थनादि मुखक्षालनान्तम्
समुद्रवसने देवि पर्वतस्तनमण्डिते ।
विष्णुपत्नि नमस्तुभ्यं पादचारं क्षमस्व मे
11
1 [] एतचिह्नमध्यगतो भाग: (श्री. अ१) पुस्तकयोरेव दृश्यते.