________________
यौवनोल्लासः तृतीय:-श्रीक्रमः ततः ऐं ह्रीं श्रीं इसमें हसक्षमलवरयूं सहक्षमलवरयीं 'सौं स्हौः अमुकाम्बासहितश्री अमुकानन्दनाथगुरु श्रीपादुकां पूजयामीति मन्त्रान्ते सुमुखसुवृत्तचतुरश्रमुद्रयोन्याख्याभिः पञ्चभिः मुद्राभिः तं प्रणमेत् । मुद्राप्रकारस्तु तत्प्रकरणे वक्ष्यते ।
तत:
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्याऽवतारसंसिद्धयै स्वीकृतानेकविग्रह ॥ नवाय नवरूपाय परमार्थस्वरूपिणे । सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ॥ स्वतन्त्राय दयाकृप्तविग्रहाय शिवात्मने । परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥ विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् । प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः । सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥ इत्येवं पञ्चभिः श्लोकैः स्तुवीत यतमानसः । प्रातः प्रबोधसमय जपात् सुदिवसं भवेत् ॥
प्राणसंयमनम् अथ तच्चरणकमलयुगळविगळदमृतरसविसरपरिप्लुताखिलाङ्गं आत्मानं भावयन् शिवादिश्रीगुरुभ्यो नम इति मूर्धनि बद्धाञ्जलिः त्रिः प्राणानायच्छेत् । तत्प्रकारस्तु
–एकवारमावृत्तया मूलविद्यया पिङ्गळापथेन पूरकं, त्रिरावृत्तया तया मूलाधारानाहताज्ञासंज्ञेषु कमलेषु क्रमेण शोणपीतश्वेतकूटत्रयविभावनापूर्व सुषुम्नायां कुम्भकं, सकृदावृत्तया च तया इडानाडीवर्त्मना रेचकमिति । इह पूरकरेचकयोः पिङ्गळेडयोः व्यत्ययोऽपि दृष्टोऽन्यत्र ॥ 'सौं: स्हौं:-अ १.
श्रीपरमगुरुपरमेष्ठिगुरुश्री-अ १. ३ त्वत्प्रसादादहं देव कृतकृत्योऽस्मि सर्वदा । मायामृत्युमहापाशात् विमुक्तोऽस्मि शिवोऽस्मि च ॥ (इत्यधिक: अ, पुस्तके).