________________
निल्योत्सवः गृहे तु विना तर्पणम् । अशक्तौ च स्मार्तेन पथा मन्त्रमस्मनानयोरन्यतरं निवर्त्य मूलेन त्रिराचमनप्रोक्षणे केवलं कुर्यात् ॥
सन्ध्याविधिः अथ धौते वाससी परिधाय विधृतपुण्ड्रः वैदिकी सन्ध्यामभिवन्ध तान्त्रिकीमाचरेत् । यथा --मूलेन त्रिराचम्य द्विः परिमृज्य सकृदुपस्पृश्य चक्षुषी नासिके श्रोत्रे असे नामि हृदयं शिरश्चाभिम्पृशेत् । 'एवं त्रिराचम्य, पूर्ववत् प्राणानायम्य, त्रिरात्मानं च प्रोक्ष्य, अञ्जलिना सलिलमादाय ऐं ह्रीं श्रीं हां ही हरू सः मार्ताण्डभैरवाय प्रकाशशक्तिसहिताय म्वाहेतिमन्त्रेण उदयते विवस्वने त्रिरये दत्वा तन्मण्डले श्रीचक्रमनुचिन्त्य तत्र ध्यायेत्
ध्यायेत् कामेश्वराङ्कस्थां कुरुविन्दमणिप्रभाम् । शोणाम्बरस्रगालेपां सर्वाङ्गीणविभूषणाम् ॥ सौन्दर्यशेवधिं सेषुचापपाशाङ्कुशोज्ज्वलाम् । म्वभाभिरणिमाद्याभिः सेव्यां सर्वनियामिकाम् ॥ सच्चिदानन्दवपुषं सदयापाङ्गविभ्रमाम् ।
सर्वलोकैकजननीं स्मेरास्यां ललिताऽम्बिकाम् ।। अत्रायुधानां क्रमः स्वरूपं च सपर्याप्रकरणे वक्ष्यते ॥
ततः-ऐं ह्रीं श्रीं क ए ई ल ह्रीं त्रिपुरसुन्दरि विद्महे ऐं ह्रीं श्रीं ह स क ह ल ह्रीं पीठकामिनि धीमहि ऐं ह्रीं श्रीं सकलहीं तन्नः क्लिन्ने प्रचोदयात् – इति मन्त्रेण महेश्यै त्रिरयं दत्वा मूलेन त्रिः सन्तर्प्य मूलेन पूर्ववदाचम्य जपप्रकरणे वक्ष्यमाणान् ऋप्यादीन् न्यस्य मूलमष्टोत्तरशतवारं आवर्तयेत् । ततः पुनः
1 षोडश्युपासनायां तु मूलत्रये दशबीजसम्पुटितेन प्रथमादिखण्डत्रयेण तत्त्वशोधनम् । सर्वेण मूलेन सर्वतत्त्वशोधनं चेति विशेषः । एवमुत्तरत्रापि खण्डत्रयेण ज्ञेयम् । इत्यधिकः (अ) पुस्तके.
"परदेवतां-अ, अ१, भ.
३ ह्रां ह्रीं ह्रूं सः मार्ताण्डभैरवं तर्पयामि त्रिः। मूलेन साङ्गां सायुधां सशक्तिकां सवाहनों सपरिवारां श्रीललितामहात्रिपुरसुन्दरीं तर्पयामीति त्रिः सन्तर्प्य आचम्य-इत्यधिक: (अ) पुस्तके.