________________
तरुणोलासो द्वितीयः - गणपतिक्रमः
तर्पणजपस्तोत्राणि
अथ प्रक्षाळितपाणिपाद आचान्त आगत्य देवं मूलेन त्रिधा सन्तर्प्य पुप्पाञ्जलिं दत्वा प्रदक्षिणनुतीर्विधाय जपेत् —
अस्य श्रीमहागणपतिमहामन्त्रस्य गणकऋषये नम इति शिरसि । गायत्रीछन्दसे नम इति मुखे । महागणपतये देवतायै नम इति हृदये । गं बीजाय नम इति गुह्ये । स्वाहाशक्त्यै नम इति पादयोः । ॐ कीलकाय नम इति नाभौ । मम अभीष्टसिद्धयै विनियोगाय नम इति करसम्पुटे च न्यस्य । उक्तैः षडङ्गमन्त्रैः अङ्गुष्ठादिषु हृदयादिषु च न्यासं विधाय । पूर्वोक्तभङ्गया ध्यात्वा । श्यामाक्रमे वक्ष्यमाणप्रकारेण संस्कृतां मालामादाय श्रीक्रमे वक्ष्यमाणविधिना मूलमष्टोत्तरशतवारानावर्त्य पुनरपि न्यासादि कृत्वा
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा ||
इति सामान्यादकेन जपं देवस्य दक्षको समर्पितं विभाव्य स्तुवीत । यथा -
1
श्रीभगवानुवाच ।
गणेशस्य स्तवं वक्ष्ये कलौ झटिति सिद्धिदम् ।
न न्यासो न च संस्कारो न होमो न च तर्पणम् ॥
2
न मार्जनं च पञ्चाढ्यं सहस्रजपमात्रतः । सिध्यत्यर्चनतः पञ्चशतब्राह्मणभोजनात् ॥
अम्य श्रीगणपतिस्तोत्रमालामन्त्रम्य भगवान् श्रीसदाशिव ऋषिः । उष्णिक् छन्दः । श्रीगणपतिर्देवता । श्रीगणपतिप्रसाद सिद्धयर्थे जपे विनियोगः ।
ध्यानम्
चतुर्भुजं रक्ततनुं त्रिणेत्रं पाशाङ्कुशौ मोदकपात्रदन्तौ ।
करैर्दधानं सरसीरुहस्थं गणाधिनाथं शशिचूडमीडे ॥ इति ॥
पादमाचान्तमागत्य – इति पाठः बहुषु कोशेषु दृश्यते.
पञ्चास्य-अ.
३१
3 अष्टि: - ब१, ब२,
बई, भ.