________________
नित्योत्सवः । गणनाथस्य पुनस्तर्पणं षोडशोपचारपूजा च एवं पञ्चावरणीं इष्ट्वा पुनर्देवं दशधा प्राग्वदुपतर्प्य षोडशभिः उपचारैः आराधयेत् । ते च] पाद्यार्थ्याचमनीयस्त्रानवासोगन्धपुप्पधूपदीपनीराजनछत्रचामरयुगदर्पणनैवेद्यपानीयताम्बूलाख्याः । मन्त्रास्तु-श्रीं ह्रीं क्लीं महागणपतये पाद्यं कल्पयामि नमः इत्यादयः । नैवेद्ये त्रिकोणवृत्तचतुरश्रमण्डलकरणम् , मूलेन प्रोक्षणम् , वं इति धनुमुद्रया अमृतीकरणम् , मूलेन सप्तवाराभिमन्त्रणम् . प्राणादिमुद्राप्रदर्शनं च कुर्यात् । इहापरिगणितान्यपि पूर्वोत्तरापोशनहस्तप्रक्षाळनगण्डूपपुनराचमनीयानि नैवेद्याङ्गत्वेन पूर्ववत् कल्पयेत् ॥
अग्निकार्यम् अथ श्रीक्रमे वक्ष्यमाणेन विधिना स्थण्डिलकल्पनादिप्रधानदेवतापञ्चोपचारान्तं
कृत्वा
श्रीं ह्रीं क्लीं श्रियै स्वाहा । श्रिया इदं न मम ॥
३ श्रीपतये स्वाहा । श्रीपतय इदं न मम ॥ इत्यादिरीत्या पञ्चममिथुनवर्ज ,यादिविघ्नकर्तृपर्यन्ताः विंशतिदेवता उद्दिश्य चतुर्थ्यन्तैः बीजत्रयायैः स्वाहाशिरस्कैः तत्तन्नाममन्त्रैः आज्यन एकैकवारं उद्देशत्यागपूर्वकं हुत्वा अथ प्रधानदेवतायै महागणपतये मूलेन दशवारं हुत्वा वक्ष्यमाणप्रकारेण बलिं प्रदाय महाव्याहृत्यादिविधिशेषं निर्वर्तयेत् ॥
बलिदानम् होमाकरणपक्षे बलिमात्रं दद्यात् । यथा---'पुरतः स्ववामभागे त्रिकोणवृत्तचतुरश्रात्मकं मण्डलं कृत्वा ऐं व्यापकमण्डलाय नमः इति गन्धादिभिरभ्यर्च्य अर्धभक्तपूरितोदकं सक्षीरादित्रयं पात्रं तत्र विन्यस्य ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं फट् स्वाहा इति मन्त्रं त्रिः पठित्वा दक्षकरार्पितं वामकरतत्त्वमुद्रास्पृष्टं क्षीरं बल्युपरि दत्वा बाणमुद्रया बलिं भूतैः माहितं विभाव्य प्रणमेदिति ॥
1 " ताम्बूलं च" इत्यधिकः-अ, भ. 'यागगृहाबहिः वामभागे-अ.