________________
३२
नित्योत्सवः
सदाशिवप्रोक्तं गणेशाष्टकम् ॐ विनायकैकभावनासमर्चनासमर्पित
प्रमोदकैः प्रमोदकैः प्रमोदमोदमोदकम् । यदर्पितं समर्पितं नवन्यधान्यनिर्मितं
नखण्डितं नखण्डितं नखण्डमण्डनं कृतम् ॥ सजातिकृद्विजातिकृत्म्वनिष्ठभेदवर्जितं
निरञ्जनं च निर्गुणं निराकृतिं च निस्क्रियम् । सदात्मकं चिदात्मकं सुखात्मकं परं पदं
भजामि तं गजाननं स्वमाययाऽऽत्तविग्रहम् ॥ गणाधिप त्वमष्टमूर्तिरीशसूनुरीश्वरः
त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः । त्वमेव दीक्षितः क्षितिनिशाकरः प्रभाकरः
चराचरप्रचारहेतुरन्तरायशान्तिकृत् ।। अनेकदं तमालनीलमेकदन्तसुन्दरं
गजाननं नुमो गजाननामृताब्धिमन्दिरम् । समम्तवेदवादसत्कलाकलापमन्दिरं
महान्तगयदुम्तमश्शमार्कमाश्रितोदरम ॥ सग्नहेमघण्टिकानिनादनपुरम्वनैः ।
मृदङ्गताळनादभेदसाधनानुरूपतः । धिमिद्धिमित्ततोऽङ्गतोङ्गथेयिथयिशब्दतो
विनायकश्शशाङ्कशेखरोग्रतः प्रनृत्यति ।। नमामि नाकनायकैकनायकं विनायक
कलाकलापकल्पनानिदानमादिपूरुषम् । गणेश्वरं गुणेश्वरं महेश्वरात्मसम्भवं
म्वपादमूलसेविनामपारवैभवप्रदम् ।। भजे प्रचण्डतुन्दिलं सदन्दशूकभूषणं • मनन्दनादिवन्दितं समम्तसिद्धमेवितम् ।