________________
आरम्भोल्लास: प्रथमः---दीक्षाक्रमः शरीरं अर्थ असूंश्च गुर्थं धारयेत् । तदुक्तं कुर्यात् । तद्वचसि युक्तायुक्तं न विचारयेत् । सर्वत्र व्यवस्थां तन्यात् । सत्यं वदेत् । परधनं न स्पृहयेत् । आत्मस्तुति परनिन्दा मर्मस्पृग्वचनं परिहासं धिक्कारमाक्रोशं त्रासोत्पादनं च न विदध्यात् । सर्वप्रयत्नेन परदेवताऽऽराधनद्वारा पूर्णज्ञानात्मकं ब्रह्मभावमभिलपेत् । एतानन्यांश्च मन्वादिभिरुक्तान् एतदविरुद्धान् आचारान् अङ्गीकुर्यात् ॥
कुलधर्मनिष्ठाफलम् इत्थं विदित्वा विधिवत् अनुतिष्ठन् कुलधर्मनिष्ठः सर्वथा कृतकृत्यो भवति । तस्य शरीरत्यागे श्वपचगृहे वा काश्यां वा न विशेषः । स तु जीवन्मुक्त एवेति ॥
शिष्यस्य परचिद्रूपापादनम ततो देहेन्द्रियादिविलक्षणमवस्थात्रयसाक्षि सच्चिदानन्दात्मकं प्रत्यगभिन्नं ब्रह्मैव त्वमसीति शिप्याय आत्मतत्वमुपदिश्य ललिताश्यामावार्ताळीविद्याभिः तदङ्गं त्रिः परिमृज्य परिरभ्य तं मू[पाघ्राय स्वमिव शिष्यमपि परचिद्रूपं कुर्यात् ।।
सर्वमत्राधिकारलाभः सोऽपि श्रीगुरुपदिष्टप्रकाग्ण क्षणमात्मानं पूर्ण भावयित्वा कृतार्थः सन् यथाविभवं श्रीगुरुं वसुवसनाभरणादिभिः आराध्य तस्मात् विदितवेदितव्यरहस्यजातोऽशेषमन्त्राधिकारी भवेत् ॥
ततो गुरुः हविःप्रतिपत्त्यादिविशेषार्थ्यविसर्जनान्तं विधिशेष निर्वतयेत् ॥
___ तत्तत्क्रमानुष्ठाने दीक्षाव्यवस्था 'अनेनैव-एकस्मिन्नेव काले समुच्चितेन वा अन्यतमेनैकैकेन कालभेदात्दीक्षाविधिना गणपत्यादीनामुक्तानां पञ्चानां देवतानामपि क्रमानुष्ठानं सम्भवति । न तु पृथक् पृथक् दीक्षणम् । सामान्यपद्धत्युक्ततत्तन्मन्त्रमात्रोपासकस्य तु पृथक
___1“अनेन एकस्मिन्नेव काले समुचितेन अन्यतमेन वा एकेनैव दीक्षाविधिना गणपत्यादीनां" इति (अ) पाठ:-"अनेनैव दीक्षाविधिना गणपत्यादीनां" इति (ब२) पाठः.