________________
नित्योत्सवः
पृथगेव दीक्षा | बालोपासकस्य तु मन्त्रदीक्षाऽऽत्मतया बालाया उपदेशः, एवं इष्टमत्वेनाप्युपदेशो ज्ञेयः । ललिताऽङ्गत्वेन श्यामाऽऽदीनां तिसृणामुपास्तेः कृताकृतत्वज्ञापकात् तदकरणपक्षे गणपतेः ललितायाश्च क्रमं प्रवर्त्य उभयोरेव पात्राण्यासाद्य चक्रराजमात्रं कलशे निक्षिप्य श्रीविद्यया केवलं शिप्यं स्त्रपयित्वा तदङ्गं च परिमृज्य शेषमशेषं अनुतिष्ठेत् । गणपतिश्यामाऽऽदीनां अन्यासां च देवतानां स्वातन्त्र्येण एकैकोपास्तौ तु तत्तत्क्रममात्रं प्रवर्त्य तत्तत्पात्रे आसाद्य तत्तद्यन्तं कुम्भे निक्षिप्य तत्तन्मन्त्रेण स्नानाङ्गपरिमार्जने कुर्यात् । अवशिष्टं अविशिष्टमिति विवेकः ॥
१४
अधिकारिनिर्णयः
'सुन्दरीमहोदयं तु–अस्यां च दीक्षायां त्रैवर्णिकस्यैव अधिकारः, 'सर्वशास्त्रार्थवेदार्थज्ञानिने सुव्रताय च । दीक्षा देया " इति मूले ज्ञानार्णवतन्त्रे अधिकार्युक्तः इति स्थितम् । शाक्तीनां तु ओघत्रयान्तर्गुरुमण्डलान्तर्दर्शनज्ञापक बलात् अस्त्येवाधिकार इति रहस्यमिति शिवम् ||
..
इति भासुरानन्दनाथचरणारविन्दमिळिन्दायमानमानमेन उमानन्दनाथेन निर्मिते अभिनवे कल्पसूत्रानुसारिणि नित्योत्सवनिबन्धे दीक्षासमारम्भनिरूपणं नामारम्भोल्लासः प्रथमः सम्पूर्णः
1 अयं ग्रन्थभागः (भ) कोशे नास्त्येव अन्यकोशेषु केषु चित् पृथक् संयोजितः.