________________
नित्योत्सवः
इष्टमत्रदानम् एवं इदं दीक्षात्रयं निवर्त्य पश्चात् तम्मा इष्टं मन्त्रं दद्यात् । ततो गुरुः शिप्यशिरसि स्वचरणौ निवेश्य इष्टमन्त्रक्रमोपयुक्तान् सर्वान् अङ्गमन्त्रान् तस्मिन्नेव काले क्रमेण वा यथाऽधिकारमुपदिश्य स्वाङ्गेपु किमप्यङ्गं शिष्यं स्पर्शयित्वा तदङ्गमातृकाक्षरादि द्वयक्षरं त्र्यक्षरं चतुरक्षरं वा आनन्दनाथशब्दान्तं तस्य नाम कृत्वा दशमखण्डोक्तानाचाराननुशिप्यात् ॥
समयाचारानुशासनम यथा-व्यवहारं देशं च स्वस्य स्वात्म्यबलसहायवयांसि च प्रविचार्यैव पञ्चमः म्वीकर्तव्यः । सर्वैः प्राणिभिः अविरोद्धव्यम् । उपासनापरिपन्थिनो विनिग्रहीतव्याः । आश्रिता अनुग्रहीतव्याः । स्वगुरुवत् गुरोः पुत्रे कळत्रे ज्येष्ठादिषु च वर्तितव्यम् । मकारत्रितये इतिकर्तव्यता गुरुशास्त्रसम्प्रदायतो ज्ञातव्या । सर्वस्मिन् विषय वचनपूर्वकमेव प्रवर्तितव्यम् । दश कुलवृक्षाः न छेत्तव्याः । ते च
श्लप्मातककरञ्जाक्षनिम्बाश्वत्थकदम्बकाः ।
बिल्वो वटोदुम्बरौ च तिन्त्रिणी च दश स्मृताः ॥ स्त्रीवृन्दक्षीरकलशसिद्धलिङ्गिविविधक्रीडाकुलकुमारीकुलसहकाराशोकैकतरुपितृवनमत्तवाराङ्गनारक्तांशुकामत्तेभान् दृष्ट्वा वन्दितव्यम् । कृष्णाष्टमीकृष्णचतुर्दशीदर्शपूर्णिमासङ्क्रमणाख्येषु पञ्चपर्वसु विशेषतो नैमित्तिकी वरिवस्या कर्तव्या । साधकस्य आरम्भ-तरुण-यौवन-प्रौढ-तदन्तोन्मनानवस्थाऽऽख्येषु सप्तसु उल्लासेषु प्रौढोल्लासान्तमेव हविःप्रतिपत्तिः । समयाचारांश्च प्रवर्तेरन् । ततः परां दशां प्राप्तानां स्वैरचारित्वम् । तत्र तादृशो वीर इति व्यवयिते । वीरव्यवहारेषु अन्यथासम्भावनया अधः पतेत् । अतः तथा नाचरेत् । रक्तायास्त्यागं, विरक्ताया हठादाक्रमणं, उदासीनाया धनादिना प्रलोभनं च वर्जयेत् । करुणाशङ्कामयलज्जाजुगुप्साकुलजात्यभिमानशीलानि क्रमेण त्यजेत् । विहितहिंसाऽऽदो करुणाऽऽदीनां प्रातिकूल्येन तत्त्याग उक्त इति भावः । गुरुपरमगुर्वोः समागमने प्रथमं परमगुरुं प्रणमेत् । तदने गुर्वनुमत्या तन्नतिं कलयेत् । पूज्येषु न पराङ्मुखो भवेत् । मुख्यतया स्वप्रकाशमात्मानं अनुसन्दध्यात् ।