________________
आरम्भोल्लासः प्रथमः-दीक्षाक्रमः एतच्छास्त्रप्रामाण्यं विश्वासैकसमधिगम्यम् । गुरुमन्त्रदेवताऽऽत्मनां श्रीगुरूक्तपथेन ऐक्यविभावनात् मनःपवनयोः एकयत्ननिरोद्धव्यत्वज्ञानाच्च प्रत्यगात्मवेदनम् । म्वरूपानन्दाभिव्यञ्जकैः पञ्चमकारैः अर्चनमुपह्वरे । प्राकट्यान्निरयः । भावनादाात् निग्रहानुग्रहसामर्थ्यलाभः ॥
उपासकधर्माः दर्शनान्तराणामनिन्दनम् । म्वोपास्यदेवतामन्तरा क्वापि महत्त्वबुद्धयभावः । सच्छिप्य एव रहम्यप्रकाशनम् । सदा स्वोपास्यमन्त्रानुसन्धानम् । सततं शिवोऽहमिति भावनम् । कामक्रोधलोभमोहमदमात्सर्याणां अविहितहिंसायाश्चौर्यस्य जनविरोधस्य स्त्रिया विद्वेषस्य विद्विष्टम्य च वर्जनम् । सर्वज्ञस्यैकस्य गुरोः उपास्तिः । गुरुवाक्यशास्त्रादौ सर्वत्रासंशयः । स्वैकोपभोगवुद्ध्या धनाद्यनार्जनम् । फलमनभिसन्धाय कर्माचरणम् । अलोपः म्ववर्णाश्रमोक्तानां नित्यानां कर्मणाम् । मपञ्चकस्यालाभेऽपि निल्यमपर्यानिवर्तनम् । वैधानुष्ठाने सर्वतो निर्भयता ॥
सर्वसारभूतो धर्मः वृत्तिभिः वेद्यं सर्वं हविः । इन्द्रियाण्येव स्रुचः । सङ्कोचेन स्वात्मस्थिताः सर्वज्ञत्वसर्वकर्तृत्वादयः परमशिवशक्तय एव ज्वालाः । स्वात्मशिव एव पावकः । स्वयमेव होता । निर्गुणब्रह्मापरोक्ष्यं फलम् । स्वपारमार्थिकस्वरूपलाभान्न परं विद्यते ॥ सेयमेतच्छास्त्रमर्यादा ॥
दीक्षाऽऽवश्यकत्वम् वेश्या इव प्रकटा वेदादयो विद्याः । सर्वेषु दर्शनेषु गुप्तेयं विद्या । तत्र सर्वथा मतिमान् दीक्षतेति ॥
शाम्भवी दीक्षा अथ शिप्यस्य शिरसि कामेश्वरीकामेश्वरयोः रक्तशुक्लाख्यचरणन्यासं भावयित्वा तदमृतक्षरणेन तस्य बाह्यमाभ्यन्तरं च मलं दुरीकुर्यात् । एषा चरणविन्यासरूपा शाम्भवी दीक्षा ॥
48