________________
नित्योत्सव : शाक्ती दीक्षा
अथ शिप्यस्यामूलाधारं आ च ब्रह्मरन्ध्रं प्रज्वलन्तीं ज्वलदनलनिभां परचिद्रूपां प्रकाशलहरीं ध्यात्वा तत्किरणैः तस्य पापपाशान् दहेत् । इयं शक्तिप्रवेशनरूपा शाक्ती दीक्षा द्वितीया ॥
१०
मान्त्री दीक्षा
ततः शुण्ठी- मरीचि - पिप्पली-हरीतकी-धात्रीफल-विभीतकत्वगेला - लवङ्ग-पत्रनागकेसर-तक्कोल-मदयन्ती-सहदेवीसंज्ञानां त्रयोदशानां वस्तूनां चूर्णमिश्रेण दूर्वाभस्मभ्यां गजाश्वशालाचतुप्पथवल्मीकनदीसङ्गमहद्गोष्ठसमानीताभिः सप्तभिः मृत्तिकाभिश्च उपेतेन चन्दनकाश्मीरगोरोचनकर्पूरैः चतुर्भिः सुरभिटेन शुचिना जलेन पूर्ण नवीनवासोयुगवेष्टितं ईशानतः शालितण्डुलपुञ्जोपरि निहितं नूतनं कलशं आमेयादिविदिक्षु मध्ये प्रागादिदिक्षु च बालाषडङ्गेन अभ्यर्च्य तदन्तर्ललिताश्यामावाराहीणां चक्राणि विनिक्षिप्य तत्र पुनः तास्तिस्रो देवताः त्रिः तत्तन्मूलेन तत्तदावरणानि च तत्तन्मन्त्रैः समभ्यर्च्य कुम्भमन्त्रमन्त्रेण संरक्ष्य प्रदर्श्य धेनुयोनिमुद्रे चक्राणि यथाम्थानमवस्थापयेत् ॥
ततः सक्षीरेण सिन्दूरकुङ्कुमादिना चन्द्रनादिपीठे मातृकायन्त्रं विलिख्य तत्र शिष्यं निवेश्य तेन कुम्भाम्भसा ललिताश्यामावार्ताळीमूलविद्याभिः स्नपयेत् । मातृकायन्त्रं तु
व्योमेन्द्वौरसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केसरं पत्रान्तर्गतपञ्चवर्गयशळार्णादित्रिवर्गं क्रमात् ।
आशाम्वश्रिपु लान्तलाङ्गलियुजा क्षाणीपुरेणावृतं
वर्णाब्जं शिरसि स्थितं विषगदप्रध्वंसि मृत्युञ्जयम् ॥ इति ॥
अस्यार्थः – व्योम हकारः । इन्दुः सकारः । औ इति रूपम् । रसनार्ण: विसर्गः । एतत्पिण्डः कर्णिकायां यम्य तथोक्तम् । क्रमात् प्राच्यादित इत्यर्थः । अचां अकारादिविसर्गान्तानां षोडशानां स्वराणाम् । द्वन्द्वैः अं आं इत्यादिभिः । लिखितैरिति शेषः । स्फुरन्तः केसराः दळद्वयमध्यभागाः अष्टौ यस्य तत्